पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
द्वितीयोद्द्योतः


गअणं च मत्तमेहं धारालुलिअज्जुणाई अ वणाई ।
ऩिरहङ्कारामिअङ्का हरन्ति नीलाओ वि णिसाओ ।।


लोचनम्


न च निःश्वासेनान्ध इवादर्शः स इव चन्द्र इति कल्पना युक्ता । जैमिनीय सूत्रे ह्येवं योज्यते न काव्येऽपीत्यलम् । गमणमिति ।

गगनं च मत्तमेघं धाराललितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ॥

 इति च्छाया। चशब्दोऽपिशब्दार्थे । गगनं मत्तमेघमपि न केवलं तारकितम् । धाराललितार्जुनवृक्षाण्यपि वनानि न केवलं मलयमारुतान्दोलितसहकाराणि । निरहका- रमृगाङ्का नीला अपि निशा न केवलं सितकर करधवलिताः। हरन्ति उत्सुकयन्तीत्यर्थः । मत्तशब्देन सर्वथैवेहासम्भवत्स्वार्थेन बाधितमद्योपयोगक्षीवात्मकमुख्यार्थेन सादृश्या- न्मेघालॅ्लक्षयताऽसमञ्जसकारित्वदुर्निवारत्वादिधर्मसहस्रं ध्वन्यते । निरहङ्कारशब्देनापि चन्द्रं लक्षयता तत्पारतन्त्र्यविच्छायत्वोज्जिगमिषारूपजिगीषात्यागप्रभृतिः ॥ १॥

 अविवक्षितवाच्यस्य प्रभिन्नत्वमिति यदुक्तं तत्कुतः ? न हि स्वरूपादेव भेदो भव. तीत्याशङ्कय विवक्षितवाच्यादेवास्य भेदो भवति, विवक्षा तदभावयोर्विरोधादित्यभिप्रा-

बालप्रिया

माह- -जैमिनीयेति । गगनं चेति वर्षावर्णनम् । च शब्द इति । गगनञ्चार्जुनानि चेत्युभयत्र चशब्द इत्यर्थः । गगनं मत्तमेघमपीति अपिशब्दगम्यमर्थमाह-नेत्यादि । एवमुपर्यपि बोध्यम् । वाच्यस्यात्यन्ततिरस्कृतत्वमुपपादयति-मत्तशब्देनेत्यादि । बाधितेति । अन्वयानुपपत्तिरूपबाधाविशिष्टेत्यर्थः। सादृश्यादिति । सादृश्यात्मकमु- ख्यार्थसम्बन्धान्निमित्तादित्यर्थः । सादृश्यं मर्यादोल्लङ्घनादिना । असमञ्जसेति । अनुचितेत्यर्थः । निरहङ्कारशब्देनापीति । प्रतिषेधस्य प्रसक्तिपूर्वकत्वान्निरहङ्कारश- ब्दो ह्यहङ्कारस्वरूपयोग्ये चेतनविशेषे एव स्वरसतः प्रयुज्यत इत्यतोऽत्र मुख्यार्थस्या- न्वयानुपपत्तिरूपबाधा बोध्या । लक्षयतेति । सादृश्यादित्यनुषज्यते । तच्च मालिन्या- दिना । तदित्यादि । तत्पदेन निरहङ्कारपरामर्शः तद्गतपारतन्त्र्यादोत्यर्थः । उज्जिग- मिषा उन्नतीच्छा, तद्रूपा या जिगीषा उत्कर्षेच्छा तत्त्यागप्रभृतिरित्यर्थः ॥ १ ॥

 सूत्रवृत्तिकृतोरैक्यमभिप्रेत्यावतारयति-अविवक्षितवाच्यस्येत्यादि । उक्त- मिति । 'प्रभेदप्रतिपादनायेति पूर्वग्रन्थेनोक्तमित्यर्थः । तदिति । प्रभिन्नत्वमित्यर्थः । कुत इति। कस्मात्प्रतियोगिन इत्यर्थः । न हि स्वरूपादेव भेदो भवतीति । स्वस्मादेव भेदो न भवतीत्यर्थः । अस्येति । अविवक्षितवाच्यस्येत्यर्थः । विवक्षे- त्यादि । विवक्षितत्वाविवक्षितत्वयोरेकत्रासम्भवादित्यर्थः । ननु विवक्षितान्यपराभिधे,