पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
सटीकलोचनोपेतध्वन्यालोके


 अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मिीकेः-

रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। इति ।

अत्रान्धशब्दः ।


लोचनम्

न च तिरस्कृतत्वं धर्मिरूपेण, तस्यापि तावत्यनुगमात् । अत एव च परिणतवाचोयु. क्त्या व्यवहृतम्-आदिकवेरिति । ध्वनेर्लक्ष्यप्रसिद्धतामाह-रवीति । हेमन्तवर्णने पञ्चवट्यां रामस्योक्तिरियम् । अन्ध इति चोपहतदृष्टिः। जात्यन्धस्यापि गर्भे दृष्टयुप- घातात् । अन्धोऽयं पुरोऽपि न पश्यतीत्यत्र तिरस्कारोऽन्धार्थस्य न त्वत्यन्तम् । इह त्वादर्शस्यान्धत्वमारोप्यमाणमपि न सह्यमिति । अन्धशब्दोऽत्र पदार्थस्फुटोकरणाश. क्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्श लक्षणया प्रतिपादयति । असाधारणविच्छायत्वा नुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति। भट्टनायकेन तु यदुक्तम्-'इवश- ब्दयोगाद्गोणताप्यत्र न काचित्' इति, तच्छ्लोकार्थमपरामृश्य । आदर्शचन्द्रमसोर्हि सादृश्यमिवशब्दो द्योतयति । निःश्वासान्ध इति चादर्शविशेषणम् । इवशब्दस्यान्धा- र्थेन योजने आदर्शश्चन्द्रमा इत्युदाहरणं भवेत् । योजनं चैतदिवशब्दस्य क्लिष्टम् ।

बालप्रिया

पीति । व्यक्तिरूपार्थस्यापीत्यर्थः। तावत्यनुगमादिति । लक्ष्ये व्यङ्गार्थे चार्थै अनुप्र. वेशादित्यर्थः । अन्ध इति । अन्धपदमुख्यार्थ इत्यर्थः । ननु उपहतत्वं जननात्परतो यत्किञ्चित्कारणेन भवति, तथाच जात्यन्धे कथमन्धव्यवहार इत्यत आह-जात्य- न्धस्यापीति । प्रकृतोदाहरणे अन्धपदवाच्यस्यात्यन्ततिरस्कृतत्वं विशदयितुमन्यत्र तदभावं दर्शयति-अन्ध इत्यादि । अन्ध इति च दृष्टेरुपहतत्वमारोप्योपचारेणोक्तिः । अत्र हेतुः-पुरोऽपीत्यादि । अन्धार्थस्येति । अन्धपदमुख्यार्थस्येत्यर्थः । इह त्विति । प्रकृतोदाहरणे इत्यर्थः । न सह्यमिति । आदर्शस्य दृष्टेरेवाभावादिति भावः। पदार्थेत्यादि । तद्रूपं सादृश्यमित्यर्थः । इदमेवात्र लक्ष्यतावच्छेदकम् । नष्टदृष्टीति । उपहतदृष्टीत्यर्थः । आदर्श प्रतिपादयतीति । पदार्थस्फुटीकरणाशक्तत्वेन रूपेणादर्शं बोधयतीत्यर्थः । अन्धार्थेन योजन इति । निश्वासान्ध इवेति योजन इत्यर्थः । इत्युदाहरणं भवेदिति। एवं योजनीयं भवेदित्यर्थः । भवत्वित्यत्राह-योजनं चैतदिति । निश्वासान्ध इव य आदर्शस्तद्रूपश्चन्द्रमा इति योजनं चेत्यर्थः । क्लिष्ट. मिति । अर्थस्य क्लिष्टत्वादिति भावः । इवशब्दस्योभयत्र सम्बन्धोऽस्त्विति शङ्का परि. हरन् आह-न चेति । स इवेति । आदर्श इवेत्यर्थः । न युक्तेत्यत्र हेतुमुपहासगर्भ-