पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
द्वितीयोद्द्योतः


लोचनम्

लक्षयति । व्यङ्गयान्यसाधारणान्यशब्दवाच्यानि धर्मान्तराणि । एवं कमलशब्दः । गुणशब्दस्तु संज्ञिमात्रमाहेति । तत्र यदलात्कैश्चिदारोपितं तदप्रातीतिकम् । अनुपयोग- बाधितो ह्यर्थोऽस्य ध्वनेर्विषयो लक्षणा मूलं ह्यस्य ।

 यत्तु हृदयदर्पण उक्तम्-'हहा हेति संरम्भार्थोऽयं चमत्कारः' इति । तत्रापि संरम्भः आवेगो विप्रलम्भव्यभिचारीति रसध्वनिस्तावदुपगतः । न च रामशब्दाभि. व्यक्तार्थसाहायकेन विना सरम्भोल्लासोऽपि । अहं सहे तस्याः कि वर्तत इत्येवमात्मा हि संरम्भः । कमलपदे च कः संरम्भ इत्यास्तां तावत् । अनुपयोगात्मिका च मुख्या- र्थबाधात्रास्तीति लक्षणामूलत्वादविवक्षितवाच्यभेदतास्योपपन्नैव शुद्धार्थस्याविवक्षणात्।

बालप्रिया

परिणतमर्थमिति । राज्यनिर्वासनादिधर्मवत्वेन रामव्यक्तिरूपार्थमित्यर्थः । तर्हि किं व्यङ्गयमित्यत्राह-व्यङ्गयानीत्यादि । अशब्दवाच्यानि शब्देनाभिधातुमश. क्यानि । धर्मान्तराणि निर्वेदग्लानिमोहादयोऽन्ये धर्माः । एवं कमलशब्द इति । द्वितीयः कमल शब्दो लक्ष्मीपात्रत्वादिपरिणतमर्थ लक्षयति, व्यङ्गयन्तु मनोहरत्वा. दीत्यर्थः । जायन्ते गुणा इत्यत्र गुणशब्दस्यावृत्तिः, द्वीतीयो गुणशब्दः उत्कृष्टत्वा. दिधर्मान्तरपरिणतमर्थं लक्षयतीत्याद्याशङ्कां परिहर्तुमाह-गुणशब्द इत्यादि । संज्ञिमात्रमिति । मुख्यार्थमात्रमित्यर्थः । न तु धर्मान्तरपरिणतमर्थमिति मात्रश- ब्दार्थः। तत्रेति । पूर्वोक्तोदाहरणयोरित्यर्थः । बलात् बुद्धिसामर्थ्यात् । आरो. पितमिति । आरोप्योक्तमित्यर्थः । तदिति । तदुक्तमित्यर्थः । अप्रातीतिक- मिति । सहृदयप्रतीत्यसिद्धमित्यर्थः । अत्र हेतुमाह-मनुपयोगेत्यादि । अनुप- योगबाधितः अनुपयोगात्मकबाधाधीनः । हीति हेतौ । अर्थः भवदुक्तो राज्यनि- र्वासनाद्यर्थः । अस्य ध्वनेर्विषय इति । अविवक्षितवाच्यस्थलीय ध्वनिव्यापारस्य विषय इत्यर्थः । न तु लक्षणाया विषय इति भावः । लक्षणया ह्यर्थस्यैकधर्मप्रकारेणैव प्रतीतिर्न त्वनेकधर्मप्रकारेण । परन्त्वत्र लक्षणा सहकारिणीत्याह-लक्षणेत्यादि/

 यत्त्वित्यादि । हहेत्यादि । हहाहेत्यनेन गम्यो यस्संरम्भः तस्यार्थः कार्यभूत इत्यर्थः । तत्रपीत्यनुवादः, उक्तार्थेऽपीत्यर्थः। संरम्भ इत्यस्य विवरणम्-आवेग इति। रसध्वनिरित्यादि । तवानभिमतो रसध्वनिरादावभ्युगतो भवतीत्यर्थः । इत्थं च पूर्वोक्तार्थध्वनेरभ्युपगमोऽप्यापतित इत्याह-न चेत्यादि । रामशब्दाभिव्यक्ता- र्थेति । राज्यनिर्वासनाद्यर्थेत्यर्थः । उक्तार्थे हेतुमाह-अहं सहे इत्यादि । अहं सर्वं सहे इत्यर्थस्योपोद्वलको हि रामशब्दाभिव्यक्तार्थ इति भावः । उक्तोदाहरणयोः मुख्या. र्थबाधां स्वयं विवृण्वन्नविवक्षितवाच्यभेदत्वमुपपादयति-अनुपयोगात्मिका चे. त्यादि । मुख्यार्थस्य पदार्थान्तरान्वयानुपपत्तिज्ञानमिव प्रकृतानुपयुक्तत्वज्ञानमपि लक्षणा- बीजमतोऽनुपयुक्तत्वज्ञानरूपोऽपि मुख्यार्थबाधापदार्थ इत्यर्थः । अत्रेति । उक्तोदाहरण. योरित्यर्थः । शुद्धार्थस्येति । वाच्यजात्यादिविशिष्टव्यक्तिरूपार्थस्यैत्यर्थः । तस्या-