पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
सटीकलोचनोपेतध्वन्यालोके


यथा च ममैव विषमबाणलीलायाम्-

ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
रइकिरणानुग्गहिआई होन्ति कमलाइँ कमलाई ।
( तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ इति च्छाया ।)
इत्यत्र द्वितीयः कमलशब्दः ।


लोचनम्

न्तरेणाशक्यं यत्' इति । एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुमन्तव्यः । मात्रग्रहणेन संज्ञो नात्र तिरस्कृत इत्याह-यथा चेत्यादि । ताला तदा । जाला यदा । धेप्पन्ति गृह्यन्ते । अर्थान्तरन्यासमाह- -रविकिरणेति। कमलशब्द इति । लक्ष्मीपात्रत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाहेत्यर्थः । तेन शुद्धेऽर्थे मुख्ये बाधानिमित्तं तत्रार्थे तद्धर्मसमवायः । तेन निमित्तेन रामशब्दो धर्मान्तरपरिणतमर्थं

बालप्रिया

इत्यर्थः । प्रयोजनजातस्य अभिधातुमशक्यत्वं यदुक्तं तत्रोपष्टम्भकमाह- यथोक्तमित्यादि । एष एवेति । विचित्रचर्वणापदत्वमेवेत्यर्थः । प्रयोजनस्येत्यु- त्कर्षान्वयि । मात्रग्रहणेनेति । 'न संज्ञिमात्रमिति वृत्तिस्थमात्रशब्देनेत्यर्थः । आहेत्यनेनास्य सम्बन्धः । संज्ञी नात्र तिरस्कृत इति । राज्य निर्वासनादि- धर्मवत्वेन रामस्यैव संज्ञिनः प्रतीतेरिति भावः । आहेति । वृत्तिकारो बोधयतीत्यर्थः । अत्र रामपदलक्ष्यतावच्छेदकं रामपदवाच्यत्वं सामान्यतो दुःखपात्रत्वं वा बोध्यम् । तदेति । पदार्था इति शेषः । तदा गुणाः अतिशयाधायको धर्मो गुणस्तद्वन्तः सन्तः । जायन्ते भवन्ति । कदेत्यत्राह-यदेति । ते गुणवन्तः पदार्थाः। गृह्यन्ते श्लाघ्यन्ते । अस्य सामान्यस्य समर्थकमुत्तरार्धमित्याशयेनाह-अर्थान्तरन्यासमाहेति । रवीति । रविणा किरणानुगृहीतानि करस्पृष्टानि, अथ चाभिनन्दितानि कमलानि पद्मानि । कमलानि कमलत्वेन ज्ञायमानानि भवन्तीत्यर्थः । अत्र व्यङ्गयं दर्शयति-लक्ष्मी. त्याति । लक्ष्मीपात्रत्वं कान्त्याश्रयत्वम् । आदिपदेन विकसितत्वसौरभादिशालित्वं गृह्यते। लक्ष्मीपात्रत्वादि यद्धर्मान्तरशतं तस्य चित्रता चित्रताविशिष्टं तदिति यावत् । तेन परिणतमित्यर्थः । संज्ञिनं कमलम् । आह व्यञ्जयति । केचिदत्र राम- पदं राज्य निर्वासनादिधर्मवत्वेन लक्षयन्निर्वेदादीव्यञ्जयति । एवं कमलशब्देऽपि बोध्यमित्याहुस्तन्मतं दूषयितुमुपन्यस्यति-तेनेत्यादि । तेनेति । वक्ष्यमाणहेतुनेत्यर्थः । 'अप्रातीतिकमि'त्यनेनास्य सम्बन्धः । शुद्धऽर्थे मुख्य इति । केवले रामपदमुख्यार्थ इत्यर्थः । बाधेति । प्रकृतानुपयोगात्मकबाधेत्यर्थः । तत्रार्थ इति । रामपदमुख्यार्थध- र्मिणीत्यर्थः । तद्धर्मसमवाय इति । विवक्षितराज्यनिर्वासनादि धर्मसम्बन्ध इत्यर्थः । अनेनाधाराधेयभावरूपमुख्यार्थसम्बन्धः प्रदर्शितः । उभयत्रास्तीति शेषः । धर्मान्तर.