पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
द्वितीयोद्द्योतः


 इत्यत्र रामशब्दः । अनेन हि व्यङ्गयधर्मान्तरपरिणतः सञ्ज्ञी प्रत्या- य्यते, न संज्ञिमात्रम् ।


लोचनम्

एवाह भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः। अथ च भवनमेवास्या असम्भाव्यमिति । उक्तप्रकारेण हृदयनिहितांप्रियां स्मरणशब्दवि. कल्पपरम्परया प्रत्यक्षीभावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह-हहा हेति । देवीति । युक्तं तव धैर्यमित्यर्थः। अनेनेति । रामशब्देनानुपयुज्यमानार्थेनेति भावः । व्यङ्गयं धर्मान्तरं प्रयोजनरूपं राज्यनिर्वासनाद्यसङ्ख्येयम्। तच्चासङ्ख्यत्वादभिधाव्या- पारेणाशक्यसमर्पणम् । क्रमेणार्यमाणमप्येकधीविषयभावाभावान्न चित्रचर्वणापदमिति न चारुत्वातिशयकृत् । प्रतीयमानं तु तदसङ्ख्यमनुद्भिन्नविशेषत्वेनैव किं किं रूपं न सहत इति चित्रपानकरसापूपगुडमोदकस्थानीयविचित्रचर्वणापदं भवति । यथोक्तम्-'उक्त्य-

बालप्रिया

त्यनेन च दुःखासहिष्णुत्वं व्यज्यते । क्रियासामान्यमिति । बोधयतीति शेषः मुख्यार्थोऽपि विवक्षित इत्याह-अथ चेति । चतुर्थपादमवतारयति-उक्तत्यादि । स्मरणेति । जलधराद्यद्दीपकानां प्रियतमासाधारणत्वस्मरणम् । शब्दः वैदेहीति शब्दः, तज्जनितबोध इति यावत् । 'विकल्पः कथं भविष्यतीति वितर्कः । तेषां परम्परयेत्य- र्थः । हा हा हेति त्रयो निपाताः खेदातिशये । 'देवी'त्यनेन व्यङ्गयमाह-युक्त- मिति । देव्याः कृताभिषेकायाः राजतुल्यत्वादिति भावः । 'अनेने ति पदं व्याचष्टे- रामशब्देनानुपयुज्यमानार्थेनेति । सर्वसहत्वादिप्रकृतार्थानुपयुक्तार्थकरामपदेने- त्यर्थः । 'व्यङ्गये त्यादिग्रन्थं व्याचष्टे-व्यङ्गयमित्यादि । प्रयोजनेति । लक्षणाप्र- योजनेत्यर्थः । तदत्र किमित्यत आह-राज्येति । राज्यभ्रंशादित्यर्थः । आदिपदेन वनवासपितृजायावियोगादिकं दुःख कारि सर्वं गृह्यते । अस्य व्यङ्गयत्वं व्यवस्थापयि- ष्यन्नाह-तच्चेत्यादि । तत् प्रयोजनम् । अभिधेत्यादि । युगपदभिधातुमशक्य- मित्यर्थः । क्रमेणेति । तदिति अभिधाव्यापारेणेति चानुषज्यते । एकधीति । एक. बोधविषयत्वाभावादित्यर्थः । प्रतीयमानमिति । व्यज्यमानमित्यर्थः । तुशब्दो वि. शेषे । तदसङ्ख्यमिति । असङ्ख्यत्वविशिष्टं प्रयोजनमित्यर्थः । अनुद्भिन्नेति । अ- नुद्भिन्नः अस्पष्टः विशेषः पार्थक्यं परस्परभेद इति यावत् , यत्र तत्वेनैव तद्विशिष्टमेव। पानकरसाद्यास्वादे कर्पूराधंशा यथा पार्थक्येन नानुभूयन्ते, किन्तु परस्परसंवलितत्वे. नैव प्रयोजनप्रतीतौ तथा राज्य निर्वासनादयो धर्मा इत्यर्थः । कि किमिति । नाना- रूपं सहत इत्यर्थः । प्रतिपत्तृप्रतिभादिवशेन नानाविधं भातीति यावत् । इतीति हेतौ । चित्रेत्यादि । चित्रेति पानकरसादीनां त्रयाणां विशेषणं नानारसेत्यर्थः । गुडोपस्कृतं मोदकं गुडमोदकं तत्स्थानीया तच्चर्वणातुल्या या विचित्रा विलक्षणा चर्वणा रामगतत्वेन तत्तद्धर्मावगाहिनी प्रतीतिः, तस्याः पदं विषय

        २२ ध्व०