पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
सटीकलोचनोपेतध्वन्यालोके


कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥


लोचनम्

वशाच्च बलाकाः सितपक्षिविशेषा येषु त एवंविधा मेघाः । एवं नभस्तावद्दुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजलकणोद्वारिणो वाता इति मन्दमन्दत्वमेषाम- नियतदिगागमनं च बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह–पयोदानां ये सुहृदस्तेषु च सत्सु ये शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः ताश्च सर्व पयोदवृत्तान्तं दुस्सहं स्मारयन्ति ; स्वयं च दुस्सहा इति भावः। एवमुद्दीपनविभावोद्बोधितविप्रलम्भः परस्प- राधिष्ठानत्वाद्रतेः विभावानां साधारणतामभिमन्यमानः इत एव प्रभृति प्रियतमा हृदये निधायैव स्वात्मवृत्तान्तं तावदाह-कास सन्त्विति । दृढमिति सातिशयम्। कठोर- हृदयं इति । रामशब्दार्थध्वनिविशेषावकाशदानाय कठोरह्र दयपदम् । यथा 'तद्गेहं' इत्युक्तेऽपि 'नतभित्ति' इति । अन्यथा रामपदं दशरथकुलोद्भवत्वकौसल्यास्नेहपात्रत्व- वाल्यचरितजानकीलाभादिधर्मान्तरपरिणतमर्थ कथं न ध्वनेदिति । अस्मीति । स

बालप्रिया

त्यादि । इतीति । शीकरिण इति शीकरसम्बन्धप्रतिपादनेन हेतुनेत्यर्थः। मन्दम- न्दत्वमित्यस्य 'सूचितमित्यनेन सम्बन्धः । बहुवचनव्यङ्ग्यं दर्शयति-एषामिति । सुहृद इति । बन्धव इत्यर्थः । अर्थान्तरच्चाह-तेष्विति । शोभनहृदया इति । अत एवानन्द इति भावः । कलत्वस्यानन्दहेतुक्त्वात्तद्विशिष्टकेकानामानन्दहेतुकत्व- मिति दर्शयन्नाह-हर्षेण कला इति । एवमित्यादि । पूर्वोक्तैरुद्दीपनविभावै- रुद्वोधितः विप्रलम्भः वियोगकालावच्छिन्ना रतिर्यस्य सः । परस्परेत्यादि । स्त्रीपुं. सयोर्जीवितसर्वस्वाभिमानात्मिकाया रतेः परस्परसम्बन्धित्वादित्यर्थः । विभावानां सजल जलधरादीनाम् । साधारण्यं प्रियतमासाधारण्यम् । अभिमन्यमान इति । निरूपयन्नित्यर्थः । इत इति । काममित्यादित इत्यर्थः । तावदिति । प्रथ. ममित्यर्थः । काम सन्त्यिति । यथेष्टं भवन्तु इत्यर्थः । रामशब्दार्थेति । रामशब्देनार्थविशेषाणां व्यञ्जने सहकारीत्यर्थः । तद्नेहमिति । पद्यमिदं तृती- योद्योते उदाहरिष्यते । अन्यथेति । कठोर हृदय इत्यस्याभाव इत्यर्थः । बाल्य- चरितेति । विद्याभ्यासताटकावधादीत्यर्थः । आदिपदेन परशुराम जयादिकं गृह्यते । लाभादि यद्धर्मान्तरं तेन परिणतं तत्प्रकारकप्रतीतिविषयम् । कथं न ध्वनेदिति । तथाच कठोरहृदयपदन्तदर्थानुगुणानामेव धर्माणां रामशब्देन व्यञ्जने सहकारितया निर्दिष्टमिति भावः । 'सर्वं सहे'इत्यस्य यद्यद् दुःखमापतति तत्सर्वं सहेत्यर्थः । 'वैदेही'