पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
द्वितीयोद्द्योतः


 तथाविधाभ्यां च ताभ्यां व्यङ्गयस्यैव विशेषः । तत्रार्थान्तरसङ्क्रमितवाच्यो यथा--

स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका धना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।


लोचनम्

न्तरपरिणत उक्तः । यस्त्वनुपपद्यमान उपायतामात्रेणार्थान्तरप्रतिपत्तिं कृत्वा पला. यत इव स तिरस्कृत इति । ननु व्यङ्गयात्मनो यदा ध्वने र्भेदो निरूप्यते तदा वाच्यस्य द्विधेति भेदकथनं न सङ्गतमित्याशङ्कयाह-तथाविधाभ्यां चेति । चो यस्मादर्थे । व्यञ्जकवैचित्र्याद्धि युक्तं व्यङ्गयवैचित्र्यमिति भावः । व्यञ्जके त्वर्थे यदि ध्वनिशब्द. स्तदा न कश्चिद्दोष इति भावः ।

 भेदप्रतिपादकेनैवान्वर्थनाम्ना लक्षणमपि सिद्धमित्यभिप्रायेणोदाहरणमेवाह- अर्थान्तरसङ्क्रमितवाच्यो यथेति। अत्र श्लोके रामशब्द इति सङ्गतिः। स्निग्धया जलसम्बन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या चाकचक्येन लि. तमाच्छुरितं वियन्नभो यैः। वेल्लन्त्यो विजृम्भमाणास्तथा चलन्त्यः परभागवशात्प्रहर्ष-

बालप्रिया

मनुस्यूतन्तथेत्यर्थः । रूपान्तरपरिणत इति अर्थान्तरे सङ्क्रमितमित्यस्यैव विवर- णम् । यस्त्विति । 'निश्वासान्ध' इत्यादावन्धादिपदार्थ इत्यर्थः । अनुपपद्यमानः अन्वयायोग्यः । उपायतामात्रेणेति । मुख्यार्थसम्बन्धस्य लक्षणानिमित्तत्वादिति भावः । तिरस्कृत इति। उक्त इत्यनुषङ्गः । नन्विति । व्यङ्गयात्मनो ध्वनेः ध्वनि- पदार्थस्य व्यङ्गयस्य । यदा यदि । 'वाच्यस्य भेदकथनमिति सम्बन्धः। वृत्तौ 'तथा- विधाभ्यामिति । अर्थान्तरसङ्क्रमितात्यन्ततिरस्कृताभ्यामित्यर्थः । 'ताभ्यो' वाच्या- भ्याम् । 'विशेषः' भेदः । विशेष इत्यस्यानन्तरं 'इति व्यङ्गयप्रकाश नपरस्य ध्वनेरेवायं प्रकारः' इति पाठः क्वाचिकः । लोचने भावमाह-व्यञ्जकेत्यादि । वैचित्र्यं वैलक्ष- ण्यम् , कारिकामात्रं योजयितुमाह-व्यजके त्वर्थ इत्यादि । ध्वनिशब्दार्थः व्यञ्जक- श्वेदित्यर्थः । स चार्थो वा शब्दो वा। तत्राद्यपक्षे अविवक्षितवाच्यस्येत्यस्य अविवक्षितः अप्रधानीकृतो वाच्यस्स्वात्मा येन स इति प्रथमोद्योतोक्तार्थो बोध्यः । दोष इति । अवतारिकोक्तदोष इत्यर्थः।-

 चाकचक्येनेति । प्रभातारत्येनेत्यर्थः विज़म्भमाणाः उत्साहशा- लिन्यः । परभागवशादिति । मेघानां श्यामत्वाद्बलाकानां सितत्वाच्चेति- भावः । प्रहर्षेति । मेघसंसर्गलाभजनितप्रहर्षेत्यर्थः । 'घना' इत्यस्य विवरणम्-मेघा इति । 'घना' इत्यनेन निविडत्वञ्च गम्यते । 'वेल्लद्धलाका' इत्यनेन सम्भोगस्मारक- त्वञ्च । अत एव आह-एवन्नभ इत्यादि । 'शीकरिण' इत्यस्य विवरणम्-सूक्ष्मे.