पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

सम्बन्धः । यदि वा-तत्रेति पूर्वशेषः । तत्र प्रथमोद्द्योते वृत्तिकारेण प्रकाशितः अवि. वक्षितवाच्यस्य यः प्रभेदोऽवान्तरप्रकारस्तत्प्रतिपादनायेदमुच्यते । तदवान्तरभेदप्रति- पादनद्वारेणैव चानुवादद्वारेणाविवक्षितवाच्यस्य यः प्रभेदो विवक्षितान्यपरवाच्यात्प्र- भिन्नत्वं तत्प्रतिपादनायेदमुच्यते । भवति मूलतो द्विभेदत्वं कारिकाकारस्यापि सम्मत- मेवेति भावः। सङ्क्रमितमिति णिचा व्यञ्जनाव्यापारे यः सहकारिवर्गस्तस्यायं प्रभाव इत्युक्तं तिरस्कृतशब्देन च । येन वाच्येनाविवक्षितेन सताऽविवक्षितावाच्यो ध्वनिर्व्यंपदिश्यते तद्वाच्यं द्विधेति सम्बन्धः । योऽर्थ उपपद्यमनोऽपि तावतैवानुप. योगाद्धर्मान्तरसंवलनयान्यतामिव गतो लक्ष्यमाणोऽनुगतधर्मों सूत्रन्यायेनास्ते स रूपा-

बालप्रिया

कारण "इति प्रथमोद्योत" इत्युक्तत्वादन पक्षे तत्रेति तत्वदेन तस्य परामर्श इत्याह- प्रथमोद्योत इति । अस्य पूर्वेण सहान्वयं दर्शयितुमाह-वृत्तिकारेण प्रकाशित इति । अत्र पक्षे अत इति शेषो बोध्यः। 'अविवक्षितेत्यादिग्रन्थं व्याचष्टे-अविव. क्षितवाच्यस्येत्यादि । अवान्तरप्रकारः अवान्तरधर्मः । इदमिति । 'अर्थान्तर' इत्यादि मत'मित्यन्तं सूत्रमित्यर्थः। 'अथासंलक्ष्यक्रमोद्योत' इत्यादिना वक्ष्यमाणेनापि सङ्गतिं सम्पादयितुमन्यथापि व्याचष्टे-तदवान्तरेत्यादि । 'अर्थान्तरे सङ्क्रमितमि' त्यादिना यत्तदवान्तरभेदप्रतिपादनं तद्वारेणैव तत्पूर्वकमेव । अविवक्षितवाच्यस्य ध्व- नेरिति योऽनुवादस्तद्वारेण । अस्योच्यत इत्यनेन सम्बन्धः। विवक्षितवाच्यस्येति । तदनुयोगिक इत्यर्थः । वक्ष्यमाणं मनसि कृत्य 'विवक्षितान्यपरवाच्यादित्युक्तम् । प्रभिन्नत्वमन्योन्याभावः । तत्प्रतिपादनाय तस्य ज्ञापनाय । इदमिति । अविव क्षितवाच्यमित्यर्थः । फलितमाह-भवतीत्यादि । मूलतो द्विभेदत्वमादिमं द्वैवि. ध्यम् । 'णिचे त्यस्य 'उक्तमित्यनेन सम्बन्धः । य इति । लक्षणावक्तृविवक्षादिरि- त्यर्थः । अयं सक्रमणम् । तस्य प्रभावः तेन प्रयुक्तः । स एव प्रयोजककर्तेति भावः । उक्तं बोधितम् । तिरस्कृतशब्देन चेति । इत्युक्तमित्यनेनास्य सम्बन्धः । 'अविवक्षिते'त्यादिकं विवृणोति-येनेत्यादि । वाच्येनेति । तत्तत्पदवाच्यजात्यादि- धर्मविशिष्टधर्मिणेत्यर्थः । 'अर्थान्तरे सक्रमितमित्यादिकं विवृणोति-योऽर्थ इत्यादि । योऽर्थः रामोऽस्मीत्यादौ शमादिरूपोऽर्थः । उपपद्यमानोऽपि वाच्यजात्यादिप्रकारे- णान्वययोग्योऽपि । अनुपयोगादिति । विशेषानाधायकत्वेन पुनरुक्तत्वेन वा उप- योगाभावादित्यर्थः । धर्मान्तरसंवलनया वाच्यधर्मातिरिक्तधर्मवत्वेन ।लक्ष्य- माणः लक्षणया प्रतीयमानः । अत एवान्यतां गत इव । यद्वा-धर्मान्तरसंव- लनया वाच्यधर्मातिरिक्तधर्मप्रकारकप्रतीतिविषयत्वेन हेतुना अन्यतां गत इव लक्ष्य माणः प्रतीयमानः । अनुगतधर्मी सन् लक्ष्यमाणधर्माणां तत्र तत्र भिन्नत्वेऽपि व्यक्तिरूपो धर्मी अनुस्यूत एवेति भावः । सूत्रन्यायेनेति । यथा पुष्पादिष्वेकं सूत्र-