* श्रीरस्तु *
द्वितीय उद्योतः
एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रका- |
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् । |
लोचनम्
द्वितीय उद्द्योतः |
या स्मर्यमाणा श्रेयांसि सूते ध्वंसयते रुजः । |
वृत्तिकारः सङ्गतिमुद्द्ये तस्य कुर्वाण उपक्रमते-एवमित्यादि । प्रकाशित इति । मया वृत्तिकारेण सतेति भावः । न चैतन्मयोत्सूत्रमुक्तम् , अपि तु कारिकाकाराभि- प्रायेणेत्याह-तत्रेति । तत्र द्विप्रकारप्रकाशने वृत्तिकारकृते यन्निमित्तं बीजभूतमिति
बालप्रिया
द्वितीय उद्द्योतः |
लोचनस्योत्तरस्यातो न व्याख्या प्रप्यतेऽत्र तत् । |
येति । या शिवा । जनैः स्मर्यमाणा सती, तेषां श्रेयांसि सूते जनयति । रुजः व्यापदः । अभीष्टेति । अभीष्टानां फलानामुदारा दात्री । यद्वा-अभीष्टानि फलानि यस्यां सा उदारा महती च कल्पवल्ली तामिति रूपकम् । “उदारो दातृ- महतो"रित्यमरः । सङ्गतिमुद्योतस्येति । प्रथमोद्योतेन द्वितीयोद्योतस्य सङ्गतिभि- त्यर्थः । उक्तेन सह वक्ष्यमाणस्य सङ्गतिमिति यावत् । सा चात्र प्रसङ्गरूपा बोध्या। कुर्वाणः सम्पादयन् । उपक्रमते वक्तुमारभते। सूत्रकारेणाप्रकाशितत्वादाह- मयेत्यादि। 'तत्रे'त्यादिग्रन्थमवतारयति-न चेत्यादि । एतदिति । द्विप्रकारत्व- मित्यर्थः । उत्सूत्रं सूत्रमुल्लङ्ध्य सूत्रकारानभिप्रेतमिति यावत् । 'तत्रेति तत्पदमु- क्तद्विप्रकारप्रकाशन क्रियापरामर्शकमित्यभिप्रेत्य व्याचष्टे-द्विप्रकारप्रकाशन इति । निमित्तमिति । त्रलर्थकथनं पूरितं वा । अस्यैव विवरणम्-बीजभूतमिति । 'उच्यत' इत्यनेनास्यान्वयः । इति सम्बन्ध इति । एवं पूर्वापरयोस्सङ्गतिरित्यर्थः । अन्यथा व्याचष्टे-यदि वेत्यादि । पूर्वशेषः पूर्वान्वयि । प्रथमोद्योतान्ते वृत्ति-