पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
सटीकलोचनोपेतध्वन्यालोके


रूपमाख्यायते ततेऽपि युक्ताभिधायिन एव ||


लोचनम्

किं लोचनं विनालोको भाति चन्द्रिकयापि हि ।
तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥
यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् ।
स्वात्मायतन विश्रान्तां तां वन्दे प्रतिभां शिवाम् ॥

इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तोन्मीलिते सहृदया.

लोकलोचने ध्वनिसङ्केते प्रथम उद्द्योतः ॥

बालप्रिया

 स्वव्याख्याने श्रोतृजनप्रवृत्यर्थमाह-किमित्यादि । लोचनं लोचनाख्यमेतद्वया- ख्यानम् । आलोकः काव्यालोकग्रन्थः । चन्द्रिकया अन्य कृतया चन्द्रिकाख्यव्या- ख्यया । अपि कि भाति न भातीत्यर्थः । हीति प्रसिद्धेऽवधारणे वा। अथ च लोचनं नेत्रं विना । लोकः भुवनम् । चन्द्रिकया ज्योत्स्नया, अपि किं भाति किं स्फुरति न प्रत्यक्षविषयो भवतीत्यप्रस्तुतार्थः तत्साम्यं चात्र ध्वन्यते । तेनेति । तस्माद्धेतोरित्यर्थः । अथोद्योतान्तेऽप्यनुष्ठितं मङ्गलं निबध्नाति-यदिति । यस्याः शक्तेः उन्मीलनयुक्त्या स्पन्दनयोगेनैव । विश्वं सर्वं वस्तु। क्षणादुन्मीलति प्रका- शते । क्षणादित्यनेनानन्यापेक्षत्वं द्योत्यते । स्वात्मनि स्वस्वरूपे । यद्वा-ब्रह्मचैतन्य एवायतने स्थाने विश्रान्तां स्थिताम् । प्रतिभां ज्ञानात्मिकाम् । शिवां शिवाख्याम्। तां शक्तिमहं वन्दे । अथ च यस्याः प्रतिभायाः उन्मीलनयुक्त्या प्रकाशयोगेन । विश्वम् क्षणादुन्मीलति नवनवतया भाति स्वात्मन्येवायतने विश्रान्तां वासना. रूपेणावस्थिताम् , शिवां रसावेशवेशद्यसुभगाम् , तां प्रतिभां कवीनां प्रज्ञाम् , वन्दे इत्याद्यर्थोऽपि बोध्य इति सर्वं शिवम् ॥ १९ ॥

प्रौढं क्व लोचनं मन्दः क्वाहं तेन मया कृता ।
पूर्वव्याख्यादृशाप्येषा टिप्पणी शोध्यतां बुधैः ॥

इति सहृदयतिलकपण्डितराज श्रीरामपारकविरचितायां

लोचनटिप्पण्यां प्रथमोद्द्योतः ॥