पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
प्रथमोद्योतः


स्तेऽपि न परीक्ष्य वादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम् । यदि पुनर्ध्वनेरातिशयोक्त्यानया काव्यान्तरातिशायि तैः स्व-


लोचनम्

तत्पक्षमनूय निराकरोति-येऽपीत्यादिना । उक्तया नीत्या 'यत्रार्थः शब्दो वा' इति सामान्यलक्षणं प्रतिपादितम् । वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यति 'अर्था- न्तरे सङ्क्रमितं' इत्यादिना। तत्र प्रथमोडद्द्योते ध्वनेः सामान्य लक्षणमेव कारिकाका- रेण कृतम् । द्वितीयोद्दयोते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवाद- मुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानुसारेण तु वृत्तिकृदन्त्रैवोद्द्योते मूल- विभागमवोचत्–'स च द्विविधः' इति । सर्वेषामिति । लौकिकानां शास्त्रीयाणां चैत्यर्थः । अतिशयोक्त्येति । यथा 'तान्यक्षराणि हृदये किमपि स्फुरन्ति' इतिवद. तिशयोक्त्यानाख्येयतोक्ता साररूपतां प्रतिपादयितुमिति दर्शितमिति शिवम् ॥ १९ ॥

बालप्रिया

वेशविशेषः तस्याः पूरणाय । अनाख्येयत्वपक्षस्यापि स्वयमनिराकरणे तत्पूरणं न भवेदिति भावः । उक्तया नीत्येत्यादौ यथासंख्येन सम्बन्ध इत्याशयेनोपपादयति- यत्रार्थ इत्यादि । विशेषलक्षणमिति । विशेषलक्षणकथनमित्यर्थः । वृत्तौ ‘स च द्विविध' इत्यादिना विशेषलक्षणकथनं कारिकाकाराशयानुसारेणेत्याह-तत्र प्रथमोद्योत इत्यादि । तत्र सामान्यविशेषलक्षणयोर्मध्ये । 'इति मूलविभागमवोचदित्यन्वयः । अथ यदिदं ध्वनेरनाख्येयत्वमुक्तं तन्नासत्वान्नाप्यसाधुत्वात् , किन्त्वतिशयितत्वादिति चेत्तर्हि तदभिधानं युक्तमेवेत्याह वृत्तौ-'यदि पुनरित्यादि । 'काव्यान्तरातिशायी- ति । गुणीभूतव्यङ्ग्यचित्रातिशायीत्यर्थः । 'स्वरूपमिति । सारतारूपं स्वरूपमित्यर्थः । 'तैरिति । पूर्वपक्षिभिरित्यर्थः । तदिति । तर्हीत्यिर्थः । 'तेऽपी'त्यादि । तेषामभिधा- नमस्मदभिमतत्वाद्युक्तमेवेत्यर्थः । अत्र तेऽपीत्यपिशब्देन स्वस्यापि सर्वत्र युक्ताभिधा- यित्वं ग्रन्थकृता सूचितमिति च बोध्यम् । वृत्तिस्थं 'अतिशयोक्त्या' इति पदं व्याख्या- स्यन्नादावतिशयोक्तदाहरणमाह-यथा तानीत्यादि ।

“निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि ।
अद्यापि मे मृगदृशो मधुराणि तस्याः" इत्याद्यपादत्रयम् । अतिशयोक्त्यानयेत्यस्य

व्याख्यानं-अतिशयोक्त्यानाख्येयतोक्त्येति। पूरयति-साररूपतां प्रति. पादयितुमिति । अनेन काव्यान्तरातिशायिरूपमित्यत्रत्यरूपपदार्थः साररूपत्वमिति दर्शितम् । प्रतिपादयितुमित्यनन्तरमुक्तयेति शेषः । सर्वस्यापि परमशिवस्वरूपत्वा- भिसन्धानेनोपसंहरति-इति शिवमिति । इतीत्यनेन स्वव्याख्यानपरामर्शः । किञ्च शिवमितीश्वरनिर्देशरूपं परमं मङ्गलम् ।