पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
सटीकलोचनोपेतध्वन्यालोके


तया सम्भाव्येत; यदि च गुणवृत्त्यैव ध्वनिलक्ष्यत इत्युच्यते तदभिधा- व्यापारण तदितरोऽलङ्कारवर्गः समग्र एव लक्ष्यत इति प्रत्येकमलङ्काराणां लक्षणकरणवैयर्थ्यप्रसङ्गः । किं च

लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ १६ ॥
कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः, यस्माद्ध्व-

निरस्तीति नः पक्षः । स च प्रागेव संसिद्ध इत्ययत्नसम्पन्नसमीहितार्थाः संवृत्ताः स्मः । येऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषु.


लोचनम्

समग्रभेदं लक्षयिष्यन्ति ज्ञास्यन्ति च । किं तल्लक्षणेनेत्याशङ्कयाह-यदि चेति । अभिधानाभिधेयभावो ह्यलङ्काराणां व्यापकः; ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरू- पिते कुत्रेदानीमलङ्कारकाराणां व्यापारः। तथा हेतुबलात्कार्यं जायत इति तार्किकै- रुक्ते किमिदानीमीश्वरप्रभृतीनां कर्तृणां ज्ञातॄणां वा कृत्यमपूर्वं स्यादिति सर्वो निरा. रम्भः स्यात् । तदाह-लक्षणकरणवैयर्थ्यप्रसङ्ग इति । मा भूद्वाऽपूर्वोन्मीलनं पूर्वोन्मीलितमेवास्माभिः सम्यङ्निरूपितं, तथापि को दोष इत्यभिप्रायेणाह-किं चे. त्यादि । प्रागेवेति । अस्मत्प्रयत्नादिति शेषः । एवं त्रिप्रकारमभाववाद, भक्त्यन्त- र्भूततां च निराकुर्वता अलक्षणीयत्वमेतन्मध्ये निराकृतमेव । अत एव मूलकारिका साक्षात्तन्निराकरणार्था न श्रूयते । वृत्तिकृत्तु निराकृतमपि प्रमेयशय्यापूरणाय कण्ठेन

बालप्रिया

अभिधाव्यापारे। अलङ्कारकारणामिति । अलङ्कारग्रन्थकर्तृणामित्यर्थः। कुत्रेदानीं व्यापार इति । अभिधानाभिधेयभावस्य समस्तालङ्कारव्यापकत्वात्तस्य चाभिधाव्या- पारजीवितत्वात्तनिरूपणे कृते सत्यलङ्कारनिरूपणं तद्ग्रन्थकाराणां निष्फलमेव भवेदि- त्यर्थः । अनिष्टान्तरमप्युद्घाटयति-तथेत्यादि । 'किमपूर्वं स्यादिति सम्बन्धः । इतीति हेतौ । सर्वो निरारम्भः स्यादिति । सर्वः ईश्वरप्रभृतिः कर्तृज्ञातृवर्ग: व्याख्यातमर्थ ग्रन्थेन सङ्गमयति-तदाहेति। लक्षणकरुणवैयर्थ्यप्रसङ्ग इति। लक्षणं च करणं च लक्षणकरणे, तयोः तन्निरूपणयोः वैयर्थ्यस्य प्रसङ्ग इत्यर्थः । किञ्चेत्या- दिग्रन्थमवतारयति–मेत्यादि । 'अपूर्वोन्मीलनं मा भूदित्यन्वयः । ननु कारिकाकारेण इतरपक्ष इवालक्षणीयत्वपक्षः किमिति न प्रतिक्षिप्त इति शङ्कां परिहरन् 'येऽपी'त्यादिग्र. न्थमवतारयति-एवमित्यादि । निराकृतमेवेति । ध्वनिप्रदर्शनमुखेन हि पक्षा- न्तरनिराकरणमत्र कृतं; न च तस्यालक्षणीयत्वे तत्सम्भवति इति तन्निराकरणनान्तरीय- कत्वेनालक्षणीयत्वपक्षोऽपि निराकृत इत्यर्थः। ननु तर्हि किमिति वृत्तिकृता तत्पशोऽनूद्य निराकृत इत्यत आह -वृत्तिकृदिति । प्रमेयशय्येति । प्रमेयस्य शय्या सन्नि- । -