पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
प्रथमोद्योतः


कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् ।
सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षण-


लोचनम्

मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्रभिप्रायं चाटुप्रीत्यात्मकं संवेदयन्ते । अत एव ग्रन्थकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ भक्तरभावमभ्यधात् । अस्मा- भिस्तु दुर्दुरूढं प्रत्याययितुमुक्त्तम्-भवत्वत्र लक्षणा, अलक्ष्यक्रमे तु कुपितोऽपि किं करि- ष्यसीति । यदि तु न कुप्यते 'सुवर्णपुष्पां' इत्यादावविवक्षितवाच्येऽपि मुख्यार्थबा- धादिलक्षणासामग्रीमनपेक्ष्यैन व्यङ्गवार्थविश्रान्तिरित्यलं बहुना । उपसंहरति-तस्मा- भक्तिरिति ॥ १८ ॥

 ननु मा भूद्ध्वनिरिति भक्तिरिति चैकं रूपम् । मा च भूद्भक्तिनेर्लक्षणम् । उप- लक्षणं तु भविष्यति; यत्र ध्वनिर्भवति, तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिः । न तावदेतत्सर्वत्रास्ति, इयता च किं परस्य सिद्धं ? किं वा नः त्रुटितं ? इति तदाह- कस्यचिदित्यादि । ननु भक्तिस्तावच्चिरन्तनैरुक्ता, तदुपलक्षणमुखेन च ध्वनिमपि

बालप्रिया

दस्य उक्तविधमनितरसाधारणं सौभाग्यं तत एवेत्यर्थः । संवेदयन्त इति । जानन्ती- त्यर्थः । अत एवादौ तथा व्याख्यातमिति भावः । अत्र ग्रन्थकृद्वचनं संवादयति- अत एवेत्यादि । तर्हि कुतो भवतैव लक्षणामभ्युपेत्य व्याख्यातमित्यत आह-अस्मा- भिस्त्विति । दुर्दुरूटमिति । नास्तिकमय वाग्ग्रहग्रस्तमित्यर्थः । इत्युक्तमिति सम्ब- न्धः । ननु कस्य नाम कोपस्तत्त्वं कथ्यतामित्यत्राह-यदि त्विति । व्यङ्गयार्थ- विश्रान्तिरिति । अभिमतविषयेऽपि लक्षणाया न प्रभविष्णुतेति भावः १८ ॥

 अयोपलक्षणपक्षस्यापि प्रतिक्षेपाय तच्छङ्कां वृत्तानुवादपूर्वकमुद्भावयति-नन्वि- त्यादिना भक्त्युपलक्षितो ध्वनिरित्यन्तेन । कथमुपलक्षणं भविष्यतीत्यत्राह- यत्रेत्यादि । यथा काकादिर्गृहादेर्न स्वरूपं, नापि लक्षणं, किन्तु कदाचित्सम्भव- मात्राद्वयावृत्तिप्रतिपत्तिहेतुस्तथा भक्तिरपीत्यर्थः । अस्योत्तरत्वेन कारिकामवतार- यति-न तावदित्यादि । तावदिति सम्प्रतिपत्तौ । एतदिति । उपलक्षणमि- त्यर्थः । उपलक्षणं वस्तु सर्वत्र न भवतीति सम्प्रतिपन्नमित्यर्थः । इयता चेति । भक्तेरुपलक्षणस्वमात्रेण चेत्यर्थः । त्रुटित छिन्नम् । 'यदिचे'त्यादिग्रन्थमवतारयति- नन्वित्यादि । किं तल्लक्षणणेनेति । ध्वनिलक्षणकरणं निष्फलं लक्षणफलस्येतर- व्यावृत्ततया ध्वनिज्ञानस्योपलक्षणभूतया भक्त्यैव सम्भवादित्यर्थः । तदभिधेत्यादिस- माधान ग्रन्थस्य भावार्थं विवृणोति-अभिधानेत्यादि । मभिधानाभिधेयभाव इति । काव्येन सहेति शेषः। तावता किमत आह-ततश्चेति । अभिधावृत्ते

 २१ ध्व०