पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तिरस्कारेणार्थान्तरप्रत्यायकत्वे नियमाभाव इति तेन "अग्निहोत्रं जुहुयात्स्वर्गकामः" इति श्रुतौ खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते । तत्रापि न काचि. दियत्तेत्यनाश्वासता इत्येवं वाक्यभेदो दूषणम् । इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः । न च नियुक्तोऽहमत्र करवाणि, कृता र्थोऽहमिति शास्त्रीय प्रतीतिसदृशमदः । तत्रोत्तरकर्तव्यौन्मुख्येन लौकिकत्वात् । इह तु विभावादिचर्वणाद द्भुतपुष्पवत्तत्कालसारैवोदिता न तु पूर्वापर कालानुबन्धिनीति लौकि. कादास्वादाद्योगिविषयाच्चान्य एवायं रसास्वादः । अत एव 'शिखरिणि' इत्यादावपि

बालप्रिया

ह-समयप्रकरणादेरिति । समयादिरिति पाठे स एव येन पूर्वमर्थो बुद्धः स इत्यर्थः । समयादिरित्यादिपदेन प्रकरणादेस्सङ्ग्रहः । अत्र हेतुमाह-प्रकरणादे- रिति । प्रकरणसमयादेरित्यर्थः । ननु समयाद्यपेक्षा मास्त्वित्यत्राह-प्रकरणेत्यादि । शास्त्रस्येति शेषः । नियमाभाव इतीति । अर्थवोधने नियमाभाव इत्येतत्स्यादि- त्यर्थः । तेन नियमाभावेन । का प्रमा किं प्रमाणम् । इति प्रसज्यत इति । तत्तत्पदसमय प्रकरणाद्यपेक्षा विना वाक्यस्यार्थप्रत्यायकत्वोपगमे अग्निहोत्रमित्यादि. वाक्यस्य श्वमास खादन विधित्वापत्तिरित्यर्थः । तत्रापीति । अर्थान्तरेऽपीत्यर्थः । इयत्ता व्यवस्था। नियततेति च पाठः। इतीति हेतौ । अनाश्वासता अनिश्चि- तार्थकत्वेनाबोधकता । उपसंहरति-इत्येवमित्यादि । काव्य व्यतिरिक्तं लौकिकं वैदिकं च वाक्यं समयप्रकरणादिसहकृतं युगपत्क्रमेण वा एकमर्थमेव प्रतिपादयतीत्यतोऽने- कार्थबोधकत्वेन वाक्यभेदो नैव भवति । समय प्रकरणाद्यपेक्षां विना वाक्यस्यार्थबोधक- त्वाङ्गीकारे चाव्यवस्थितार्थकत्वेनाबोधकत्वरूपाप्रामाण्यं स्यादित्येवं वाक्य भेदो दोष इति सारार्थः। काव्ये विशेषमाह-इह त्वित्यादि। विभावाद्येवेति । एवकारेण रसादि- व्यङ्ग्यव्यवच्छेदः । प्रतिपाद्यमानमिति । समयप्रकरणादिसहकृतेन काव्यवाक्येन बोध्यमानमित्यर्थः । चर्वणेति । रसादिचर्वणेत्यर्थः । समयेत्यादि । रसादिकं प्रतीति शेषः। काव्ये विभावाद्यर्थबोधे एव समयप्रकरणादेरुपयोगः, विभावादिबोधानन्तरं च विभावादेरेव नियामकान्नियतरसादिव्यङ्गयप्रतीतिः । अतश्च तां प्रति समयादेरनपेक्षणेऽपि नाव्यवस्थितार्थकत्वेन दोष इति भावः । प्रसङ्गादाह-न चेत्यादि । बोधावस्थायामत्र कर्मणि नियुक्तोऽहमिति, अनुष्ठानदशायां करवाणीति, तदुत्तरकाले तु कृतार्थोऽस्मीति च प्रतीतिः शास्त्रतो जायते । काव्यजन्यप्रतीतिस्तु तत्तुल्या नेत्यर्थः । कुत इत्यत्राह- तत्रेत्यादि । तत्र शास्त्रजन्यप्रतीतौ । उत्तरेति । उत्तर काले यत् कर्तव्यं तत्रौन्मु- ख्येन । इह तु काव्ये त्वित्यर्थः । अद्भुतपुष्पवत् इन्द्रजालादिदर्शितपुष्पेण तुल्यम् । उदिता उत्पन्ना। विभावादिचर्वणा रसप्रतीतिः। तत्कालः वर्तमान काल एव सारो यस्याः सैव । एवकारव्यावर्त्यमाह-न त्विति । ननु लौकिकप्रतीते- रन्यत्वं योगिज्ञानस्याप्यस्ति इत्यत आह-योगीति । अत एवेति । यतो रसास्वा.