पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
प्रथमोद्योतः


लोचनम्

पठंश्चर्व्य॑माणश्च सहृदयो लोकः, न तु काव्यस्य; तत्र 'उपादायापि ये हेया' इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापीह ध्वनन व्यापारः । अत एवाल. क्ष्यक्रमता । यत्तु वाक्यभेदः स्यादिति केनचिदुक्तम् , तदनभिज्ञतया। शास्त्रं हि सकृ. दुच्चारितं समयबलेनार्थं प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्या. ययेत् । अविरुद्धत्वे वा तावानेको वाक्यार्थः स्यात् । क्रमेणापि विरम्यव्यापारायोगः । पुनरुच्चारितेऽपि वाक्ये स एव, समयप्रकरणादेस्तादवस्थ्यात् । प्रकरणसमयप्राप्यार्थ-

बालप्रिया

दिविशिष्टो यः शब्दः तस्य निष्पीडनेन आम्रेडनेन । तच्चर्वणा रसचर्वणा । उक्तं विवृणोति-दृश्यत इति । यदेव काव्यं पठितञ्चर्वितश्च तदेव पुनः पुनः पठ्यते चर्व्य॑ते चेत्यर्थः। न त्विति। कृतप्रतीतिकस्य काव्यस्य काव्यशब्दस्य, तत्र रसचर्वणा- याम् । अनुपयोग एव न त्विति । उपयोगः अस्त्येवेत्यर्थः । कृतप्रतीतिकस्य अनुपयोगित्वे युक्तिप्रदर्शक उपेत्यादिन्यायः ।

"उपादायापि ये हेयास्तानुपायान् प्रचक्षते ।
उपायानां हि नियमो नावश्यमवतिष्ठते ॥

 इति न्यायेनेत्यर्थः । सोऽयं न्यायोऽत्र न प्रवर्तत इति भावः। फलितमाह- इतीत्यादि । व्यङ्गयस्य यदलक्ष्यक्रमत्वमुक्तं तदप्युक्तार्थे गमकमित्याह-अत एवेति । अत एव शब्दस्वरूपस्यैवार्थाभिधानानपेक्षतया व्यञ्जकत्वादेव । यद्यर्थप्रतीतिव्यव- धानापेक्षयैव शब्दस्य व्यञ्जकत्वं भवेत्तदावश्यं क्रमो लक्ष्येतेति भावः । वाक्यभेदः स्यादिति । काव्यस्य वाच्य व्यङ्गयार्थद्वयबोधकत्वादिति भावः । तदनभिज्ञतयेत्युक्त- मुपपादयति-शास्त्रमित्यादि । शास्त्रं काव्य व्यतिरिक्तं वाक्यम् । समयेति । तत्तदर्थे तत्तत्पदस्य यस्समयः सङ्केतः तद्बलेन तत्तत्सङ्केतग्रहणसहकारेणेत्यर्थः । अर्थं प्रतिपादयदिति हेतुगर्भम् । युगपत् एकदा। विरुद्धेति । विरुद्धार्थविषयकत्वेन विरुद्धौ । यद्वा-विरुद्धयोरर्थयोः यावनेकसमयौ तयोः स्मृतेरयोगादसम्भवादित्यर्थः । यत्रार्थे प्रकरणादिकं तेनान्यार्थसमयस्मृतेः प्रतिबन्धादिति भावः । अर्थद्वयं विरुद्धार्थ द्वयम् । कथं प्रत्याययेत् न बोधयेत् । अविरुद्धत्व इति। साक्षादेकक्रियान्वयित्वेन वा परस्परसम्बन्धित्वे सतीत्यर्थः । अर्थद्वयस्येति विपरिणामेनानुषङ्गः । अस्योदाह- रणम्-“श्वेतो धावति, सर्वदो माधवः पायादित्यादिकं बोध्यम् । तावानिति । यावान् बुध्यते तावानित्यर्थः । वाक्यार्थ एकः स्यात् वाक्यार्थे भेदो नाङ्गीक्रियत इति भावः । क्रमेणेति । शास्त्रं कथमर्थद्वयं प्रत्याययेदित्यनुषङ्गः । अत्र हेत्वन्तरं चाह-विरम्येति । विरम्य यो व्यापारः शब्दस्य तदयोगो यतः, तस्मादित्यर्थः । स एवेति । यो वाक्यार्थो बुद्धः स इत्यर्थः । एवकारः पौनर्वचनिकः । अत्र हेतुमा-