पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत् ? न त्वयमसावलौकिको रसः। ननु विभावादिरत्र किं ज्ञापको हेतुः, उत कारकः? न ज्ञापको न कारकः ; अपि तु चर्व- णोपयोगी। ननु क्वैतद्दृष्टमन्यत्र । यत एव न दृष्टं तत एवालौकिकमित्युक्तम् । नन्वेवं रसोऽप्रमाणं स्यात् ; अस्तु, किं ततः ? तच्चर्वणात एव प्रीतिव्युत्पत्तिसिद्धैः किमन्यदर्थनीयम् । नन्वप्रमाणकमेतत ; न, स्वसंवेदनसिद्धत्वात् । ज्ञानविशेषस्यैव चर्वणात्मत्वात् इत्यलं बहुना । अतश्च रसोऽयमलौकिकः । येन ललितपरुषानुप्रासस्या. र्थाभिधानानुपयोगिनोऽपि रसं प्रति व्यञ्जकत्वम् ; का तत्र लक्षणायाः शङ्कापि ? काव्यात्मकशब्दनिष्पीडनेनैव तच्चर्वणा दृश्यते । दृश्यते हि तदेव काव्यं पुनः पुनः

बालप्रिया

विभावादीनां न ज्ञापनं न वा उत्पादनं व्यापार इत्यर्थः ।

 शङ्कते-नन्वित्यादि। पूर्वोक्तेन इयं रसचर्वणा न ज्ञप्तिरूपा, नापि निष्पत्तिरूपे- त्यायातं, तर्हि किंस्वरूपेत्यर्थः । एतदिति । रस चर्वणारूपमित्यर्थः। उत्तरमाह- नन्वयमित्यादि। ज्ञप्त्युत्पत्त्ययोग्यत्वमलौकिकत्वाद्रसस्य भूषणं भवतीति भावः । ननु ज्ञापकत्वस्य कारकत्वस्य वा अभावे विभावादीनां रसप्रतीत्यर्थमुपादानं व्यर्थं, तद्भावे च रसस्य नालौकिकत्वमिति चोदयति-नन्वित्यादि । हेतोः कारकत्वज्ञापकत्वान्य- तरनियमो हि लौकिकः, विभावादेस्तु तदभावेऽपि चर्वणोपयोगित्वान्नानर्थक्यमित्याश- येन परिहरति-न ज्ञापक इत्यादि । तदुपरि शङ्कते-नन्विति । समाधत्ते-यत इति । पुनरपि शङ्कते-नन्विति । एवमिति । रसस्यालौकिकत्वे सतीत्यर्थः । रसोऽप्रमाणं स्यादिति । अप्रमाणत्वे च शुभाशुभप्राप्तिपरिहारोपायव्युत्पादकत्वन्न भवेदिति भावः । अप्रमाणत्वापातेऽपि कार्यकारित्वमस्तीत्याह-अस्त्विति। प्रीतिव्यु- त्पत्तीति । प्रीतिश्च व्युत्पत्तिश्च तयोः, यद्वा-प्रीतिपूर्विका व्युत्पत्तिः तस्याः सिद्धरित्यर्थः । नन्वेवमलौकिकत्वे रसस्य तत्साधकं प्रमाणं नास्तीति शङ्कते-नन्विति । समा- धत्ते-नेति । ननु रसस्य विशिष्टचर्वणारूपत्वाभ्युपगमात् कथं स्वसंवेदनसिद्धिरपी. त्याशङ्कायामाह-ज्ञानविशेषस्येति । यथोक्तममिनवभारत्यां-"रसना च बोध- रूपैव, किन्तु बोधान्तरेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यादि ति । पुनरपि रसस्यालौकिकत्वं साधयति-अतश्चेत्यादि । वाचकशब्दैकगम्यत्वे हि रसस्य वाच्यार्थवल्लौकिकत्वं कथञ्चिच्छक्यशङ्कमनुप्रासादिनापि वाचकत्वशून्येन व्यङ्. ग्यत्वमस्त्येव । न चानुप्रासव्यङ्ग्यं वस्तु लोके दृष्टचरमतोऽपि रसस्यालौकिकत्वं सिद्ध. मित्यर्थः । एवं रसस्यालौकिकत्वं प्रसाद्ध्य प्रस्तुतमनुसन्दधान आह-केत्यादि । तत्रेति । अनुप्रासेनापि व्यङ्ग्ये रस इत्यर्थः । का लक्षणेति । अभिधाया एवाभावे तत्पृष्ठवर्तिन्या लक्षणायाः प्रसङ्ग एव नास्तोत्यर्थः । शब्दस्वरूपस्यैवाभिधाव्यापारान- पेक्षस्य रसव्यञ्जकत्वेऽनुभवं प्रमाणयति--काव्यात्मकेत्यादि । काव्यात्मकोऽनुप्रासा-