पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
प्रथमोद्योतः


लोचनम्

भावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् । हृदयसंवादोपयोगिलोकचित्तवृत्ति- परिज्ञानावस्थायामुद्यानपुलकादिभिः स्थायिभूतरत्याद्यवगमाच्च । व्यभिचारी तु चित्त- वृत्त्यात्मत्वेऽपि मुख्यचित्तवृत्तिपरवश एव चर्व्यत इति विभावानुभावमध्ये गणितः । अत एव रस्यमानताया एषैव निष्पत्तिः, यत्प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितह- र्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वम् । अतश्चर्वणात्राभिव्यञ्जनमेव, न तु ज्ञापनम् , प्रमाणव्यापारवत् । नाप्युत्पादनम् , हेतुव्यापारवत् ।

बालप्रिया

इति षष्ठ्यन्तस्थायिग्रहणे कर्तव्येऽप्यनुभावग्रहणेनैव स्थायिप्रतीतिर्भवतीति तन्न कृत. मित्यर्थः । यद्यत्र स्थायिग्रहणं क्रियेत, तर्हि तद्विरुद्धश्च स्यादित्याह-तदित्यादि । तत् स्थायिग्रहण करणम् । शल्येति । परकीयचित्तवृत्यवगमो रस इत्यर्थप्रतीति कारि. त्वेनानिष्टजनकच्च भवेदित्यर्थः । नन्वेवं 'स्थायी रसो भवतीत्यादि तत्र तत्र सूत्रका. रादिवचनं कथं घटेतेत्यत आह-स्थायिनस्त्विति । तत्तन्नाय कादिगतस्थायिन- स्त्वित्यर्थः । औचित्यमेव स्पष्टयति-तदिति । तस्य परगतस्थायिनः सम्बन्धिनो ये विभावानुभावाः तदुचितायाश्चित्तवृत्तेस्सहृदयात्मनि यस्संस्कारस्तस्योद्बोधेन सुन्दरचर्व. णाया उदयादित्यर्थः । उक्तञ्च काव्यानुशासनव्याख्याने 'औचित्यन्तु तत्स्थायिगत. त्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वालम्बनादिति । स्थायिनो रसत्वव्यपदेशे निमित्तान्तरञ्चास्तीत्याह-हृदयेति । रसचर्वणा हि हृदय. संवादपुरस्सरी हृदयसंवादे च निदानं, लोकचित्तवृत्तिपरिज्ञानं तद्विरहितस्य हृदयसंवा- दानुदयात् । तस्याश्चावस्थायां प्रमदादिभिः कारणैः पुल कादिभिः कार्यैश्च भूयो भूयोऽ- वधृतस्वकारणव्याप्तिकैः स्थायिनो रत्यादेरवगमो भवति, तस्माच्चेत्यर्थः। ननु चित्तवृ. त्तित्वाविशेषात्स्थायीव व्यभिचार्यपि सूत्रे ग्रहणं नार्हतीत्यत आह-व्यभिचारी त्विति । व्यभिचारिणः स्थायिचित्तवृत्ति प्रति गुणत्वेन विभावादिप्रायत्वात्तन्मध्ये स नि. र्दिष्ट इत्यर्थः । प्रसङ्गात्सूत्रोक्तां रसनिष्पत्तिं विवृणोति-अत एवेत्यादि । रस्यमा- नताया एषैव निष्पत्तिरिति । एषा सूत्रोक्ता निष्पत्तिः । रस्यमानताया निष्प- त्तिरेवेत्यर्थः । यथोक्तमभिनवभारत्यां "कथन्तर्हि सूत्रे निष्पत्तिरिति नेयं रसत्यापि तु तद्विषय रसनायाः तन्निष्पत्त्या यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते, तदा न किञ्चिदत्र दोष" इति । का नामैषा रस्यमानतेत्यतस्तत्स्वरूपमाह-यदि- त्यादि । प्रबन्धेति । प्रवन्धेन प्रवृत्तं यद्बन्धुसमागमादिकारणं तेनोदिता या हर्षादि लौकिकचित्तवृत्तिः तस्या न्यग्भावेन अधःकरणेन तद्वयतिरेकेणेति यावत् । चर्वणाया- स्स्वरूपमाह-अतश्चेत्यादि । अतः लौकिकचित्तवृत्तिवैलक्षण्येनालौकिकत्वात् । अत्र चर्वणा रसविषयचर्वणा । एवकारव्यावत्यं दर्शयति-न त्वित्यादि । यथा प्रमा- णानामिन्द्रियादीनां ज्ञापनं व्यापारः, यथा वा दण्ड चक्रादीनामुत्पादनं व्यापारस्तथा