पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

दयत्वपरवशीकृततया पूर्णीभविष्यद्रसास्वादाकुरीभावेनानुमान स्मरणादिसरणिमनारुह्यैव तन्मयीभवनोचितचर्वणाप्राणतया । न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्व, येनेदानीं स्मृतिः स्यात् । न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना, अलौकिके प्रत्यक्षाद्यव्यापा. रात् । अत एवालौकिक एव विभावादिव्यवहारः। यदाह-विभावो विज्ञानार्थः लोके कारणमेवाभिधीयते न विभावः । अनुभावोऽप्यलौकिक एव । 'यदयमनुभावयति वागङ्गसत्त्वकृतोऽभिनयस्तस्मादनुभाव' इति । तच्चित्तवृत्तितन्मयो भवनमेव ह्यनुभव. नम् । लोके तु कार्यमेवोच्यते नानुभावः । अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेण 'विभावानुभावव्यभिचारिसंयोगाद्सनिष्पत्तिः' इति सूत्रे स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । स्थायि नस्तु रसीभाव औचित्यादुच्यते, तद्वि

बालप्रिया

हृदयस्य संवादः सम्मतिः, तदपरपर्यायं यत् स हृदय त्वं तत्परवशीकृततया तद्वलादि. त्यर्थः । पूर्णीति । पूर्णीभविष्यन् यो रसास्वादस्तस्य कल्पतरोश्चतुर्वर्गापायव्युत्पत्ति फलिष्यतोऽङ्कुरीभावेन हेतुनेत्यर्थः । अनुमानेति । अनुमितिस्मृत्याद्युपायं व्याप्तिज्ञा- नादिकमनालम्ब्यैवेत्यर्थः । तन्मयीति । सहृदयानां यत्तत्तचित्तवृत्तितन्मयीभवनं तस्योचिता या चर्वणा अर्थाद्विभावादेः तत्प्राणतया तदुपयोगित्वेनेत्यर्थः । साधारण्येनेति यावत् । विभावादिकं प्रतिपद्यत इत्यनुषङ्गः । विभावादीनां साधारण्येन प्रतीतावेव रसचर्वणेत्यन्यत्र स्पष्टम् । स्मृत्यादिरूपत्वन्निराकरोति-न चेत्यादि । अत एवेति । रसप्रतीतेरलौकिकत्वादेव तत्कारणेष्वलौकिको विभावादिव्यवहार इत्यर्थः । यदा. हेति । मुनिरिति शेषः । विभावो विज्ञानार्थ इति । विशिष्टतया भाव्यन्ते ज्ञायन्ते स्थायिव्यभिचारिणोऽनेनेति विभावः प्रमदोद्यानादिः । न खल्वनुभावादेव चित्तवृत्तेर्च्वि. शिष्य ज्ञानं जायते, बाष्पादेरनुभावस्यानेकहेतुजन्यत्वसम्भवादित्यर्थः । लोक इत्या. दि । चित्तवृत्तिहेतुषु लोके कारणमित्येव व्यवहारो न तु विभाव इतीत्यर्थः । यदय. मिति । अयमभिनय इत्यन्वयः । अनुभावयतीति । स्थायिव्यभिचारिण इति शेषः। अनुभाव इतीत्यनन्तरमुच्यत इति शेषः । सामाजिकसहृदयगततत्तचित्तवृत्तेविभाव. नादिना विभावादिव्यपदेश इति च रसगङ्गाधरादाबुक्तम् । अत्रानुभवनं लौकिकानु- भवनाद्विलक्षणमित्याह-तच्चित्तवृत्तीति । न परकीयच्चित्तवृत्यवगममात्र मिहानुभवनं, किन्तु तासां चित्तवृत्तीनां स्थाय्यादिरूपाणां सम्बन्धि यत्सामाजिकानां तन्मयीभवनं, तत्तचित्तवृत्तिभावनया तत्सजातीयस्वीयचित्तवृत्तेरुद्वोधनेनानुभवनं तदेवेत्यर्थः । उक्तार्थे प्रमाणमाह-अत एवेत्यादि । अत एव यस्मादनुभवनमुक्तरूपमेव न परकीयचि. त्तवृत्यनुमितिमात्रं तस्माद्धेतोरेवेत्यर्थः । न परकीयेत्यादि । किन्तु स्वीया चित्तवृत्तिरेव सामाजिकैस्तदानुभूयत इत्यर्थः । न कृतमिति । कस्येत्याकाङ्क्षाशान्तये सूत्रे स्थायिन


 १.भरतनाट्य.,