पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वगन्तव्यः । एवमेव स्वकृतक्रमस्तोत्रभैरवस्तोत्रयोरन्ते- 'षट्षष्ठिनामके वर्ष नवम्यामसितेऽहनि । मयाऽभिगवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिमकरोत् । इति पद्यद्वयमुपलभ्यते । एतेनापि तेषां कालनिर्णयस्सुकरः । विशे- पश्चाभिनवगुप्ताचार्यविषये, श्रीमद्भिः K. C. पाण्डेयमहोदयः सुपरि- श्रम्य ऐतिहासिकदशा अभिनगुप्तानामितिहासपाण्डित्यतद्विरचितग्रन्थ. विवेचनादिकं सुविचार्य विरचितात् २Abhinavagupta An Historical & Philosophical Study इति शीर्षकादनल्पाद्ग्रन्थाद. लेोचनस्याऽस्यातिप्रौढतया दुरवगाहत्वाद्ध्येतभिरत्यन्तं क्लेशोऽनु- भूयत इत्यवगत्य महता परिश्रमेण लोचनग्रन्थग्रन्थिविभेदिन्यौ तन्ममैं प्रकाशिके च बालप्रियादिव्याञ्जननाम्न्यो टिप्पण्यौ व्यतेनुः श्रीमन्तस्स हृदयतिलका रामषारकाः, कवितार्किकचक्रवर्तिनः पं० महादेवशास्त्रि पादाश्च । उभे अपि टिप्पणी कियदुपकुर्वातेऽध्येतृवर्गभ्य इति त एव जानीयुग्रन्थस्यास्याध्ययनेन । मयापि तत्र तत्र विषयविवेचनमकारि । प्रन्थस्यान्ते च कारिकार्धानां, ध्वन्यालोकलोचनयोरुद्धृतानां पद्या- नाश्च यथोपलम्भ तत्तत्स्थानप्रकाशिकाव सूचों न्यवेशयम । एवं पूर्व संस्करणान्यपेक्ष्य पाठतो विषयतश्च सुन्दरमेवेदं संस्करणं समपादि मया, तथापि मनुष्यमात्रसुलभा दोषा भव्युरेव । अतस्सर्वानपि विद्वन्मणीन् सविनयं साञ्जलिबन्द्धश्चाभ्यथय यत् श्रीमन्तो मदीयान दोषान विस्मृत्य मामनुगृह्णन्त्विति । प्रणतिसमर्पणम् एतत्संशोधने तत्र तत्र समुत्पन्नान् संशयसन्दोहान् समुत्लार्य नितान्तमुपकृतवद्भयः मय्यहैतुकोमनुपमाञ्च कृपादृष्टिं निक्षिप्य काशी- हिन्दूविश्वविद्यालये महामानः पण्डित श्रीमदनमोहनमालवीयमहोदयाः प्रतिष्ठापित मां मीमांसाध्यापकस्थाने नियुक्तवद्भयः, तलस्पर्शिपाण्डि- त्यभरसम्पादितयशःप्रवाहपरिप्लावितदिगन्तेभ्यः, पवित्रमयजीवनेभ्यो महामहोपाध्यायपदालतेभ्यः काशीहिन्दूविश्वविद्यालये संस्कृतवि. भागाध्यक्षेभ्यः पूज्य श्रीप्रमथनायतर्कभूषणमहोदयेभ्यः, बाल्यादेवारस्य १. पपमिदमेवमेव सर्वासु मातृकासूपलभ्यते । R. Chowkbamba Sanskrit Studies Vol. I.