पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्यांच ग्रन्थान् न्यभान्त्सुः। एते च ग्रन्थाः स्पष्टममीषां कियान पा. ण्डित्यप्रकर्ष इत्यवद्योतयन्त्येव । एतेषु लोचनमधिकृत्य नास्माभिरधिकं वक्तव्यम् । लोचनमामूल. चूडं यस्लम्यगधिगच्छति स एवालङ्कारिकगोष्ठीषु प्रथमगणनामर्हति । आनन्दवर्धनाचार्यरुपदिष्टे प्रत्यग्रे गम्भीरे सर्वाङ्गीणसुन्दरे च पथि सञ्च- रतां कवितल्लजानाम् आलङ्कारिकाणाञ्च लोचनमेकमेव सुमहत्साह्यमा- चरति । विना लेोचनेन केवमालोकप्रकाशिते पथि सञ्चरन्नन्ध एव परिगण्यते यथा लोकः, तथाऽनेनापि लोचनेन विना ध्वनिमाग विहरतो महाकवयो भृशं क्लिश्येयुः। एतादृशं क्लेशं दुरीकर्तुमेवाभिनवगुप्तपादै- र्लोचनं व्यरचि । अत्र चातिसरलया वचाभङ्गया, सर्वातिशायिन्या विषयोपपादनसरण्याऽतिवेलं विषयास्सूपपादिताः, खण्डितानि च वा- दिदन्तिनां विविधानि मतानि, स्थिरीकृतश्चानन्दवर्धनाचार्यप्रवर्तितो ध्वनिमार्गः। लोचनकारणां काला एतेषां जन्मतिथि: क्रिस्ताः पश्चात् एकादशशतकमिति सर्वऽपीति- हासतत्वान्वेषिण निरणैषुः । तत्रापि विशेषेण निर्णयः वृहतीविमर्शिन्या एतैर्विरचिताया अन्ते निदिष्टेन पधेन भवति । तथाहि- इति नवतितमेऽस्मिन वत्सरेऽन्त्ये युगांश तिथिशशिजलधिस्थे मार्गशीर्षावलाने । जगति विहितपोधामीश्वरप्रत्यभिज्ञां व्यवृणुत परिपूर्णा प्रेरितः शम्भुपादैः॥ इति पधं तद्ग्रन्थस्यान्त उपलभ्यते । यथाऽत्र वाराणस्यां बार्हस्प- त्यमानेन वर्षगणना प्रचलति, तथा काश्मीरेषु वचन साप्तर्षमानेन वर्षग- णना। इदानीञ्चात्र १९६७ तमो विजयनामा वैक्रमो वस्लर, तथा तत्र ५०१७ तमोवत्सरः परिगण्यते । कल्यब्दप्रारम्भात् पञ्चविंशतिवर्षानन्तरं साप्तर्षमानेन वत्सरारम्भः। अधुना ५०४२ तमः कल्यब्दः, तत्र २५ वर्षेषु न्यूनीकृतेषु सत्सु ५०१७ तमो वर्षस्साप्तर्षमानेन सिध्यति । यथा हि सधैरप्यस्माभिः स्तवान्दे १६४० तमे सत्यपि, चत्वारिंशतमो वर्ष इति व्यवह्रियते, तथा काश्मीरदेशस्था मपि ४०६० तमं वर्षे नवतितमो वर्ष इति व्यवहरन्ति । तथा च साप्तर्षमानेन नवतितमे (४०४०) वर्षे, तिथिशशिजलधौ ४११५ तमे कल्यब्दे, तदनुसारेण (१०१३ A. D.) स्तषाब्द मार्गशीर्षमासस्यावसाने बृहतीविमर्शिनी लोचनकारैनि, मितेत्यायाति।