पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ त्रिकदर्शनम् , भहताताच्च नाटय-वेदतत्त्वार्थञ्चाध्यगीष्ट । भट्टतौत. सकाशादध्ययनावसरे काचन जनश्रुतिरेवं वर्तते-भट्टतौतेन बहवो विद्यार्थिनोऽध्यापिताः। तेषु अभिनवगुप्तपादस्य सब्रह्मचारी भवदेव नामा कश्चन विद्यार्थी अवर्तत । सोऽप्यभिनवगुप्तपाद इवातिवुद्धिमाना- सीत् । यथा स्वबाल्यावस्थायामभिनवगुप्तः सर्वानपि विद्यार्थिनो भीष- यन् 'बालवलभीभुजङ्ग' इत्यप नामाभजत, तथाऽयमपि भवदेवः तथा कुर्वन् तदेव नाम स्वयमप्यभजत । अत एव भवदेवः स्वकृते तौताति- तमततिलके- 'मामध्ययनदशायामुवाच बाचं दर्शि स्वप्ने । बालवलभीभुजङ्गापरनामा त्वमसि भवदेव ॥ इत्यात्मनो बालवलभीभुजङ्गापरनासभाक्त्वं कथयति । अस्य च निर्णयोऽस्मत्सम्पादनकर्मीभूते तौतातितमततिलकस्य द्वितीये भागे करिष्यते। एवमिमे स्वीयं सर्वमपि जीवनं शास्त्राध्ययन एव व्ययीकृत्य सर्व तोमुखं पाण्डित्यं सम्पाद्य जगति लब्धप्रतिष्ठाः, सर्वमपि जगत् हिम न्दुकुन्दकुमुदप्रस्पर्धिसत्कीर्त्या धवलयन्तः संख्यातीतान ग्रन्थान् प्राणै- षुः । एभिर्विरचिताश्च ग्रन्थाः यथोपलम्भं निर्दिश्यन्ते-बोधपञ्चद- शिका, मालिनीविजयवार्तिकम् , त्रिशिकावृत्तिः, तन्त्रालेोका, तन्त्रसा. रः, ध्वन्यालोकलोचनम् , अभिनवभारती, भगवद्गीतासङ्ग्रहः, पर- मार्थसारः, ईश्वरप्रत्यभिशाविर्शिनी, ईश्वरप्रत्यमिक्षावृत्तिविमर्शिनी, कर्मस्तोत्रम् , देहस्थदेवताचक्रस्तोत्रम् भैरवस्तोत्रम् , परमार्थद्वाद- शिका, परमार्थचक्रम् , मनुभवनिवेदनम् , तन्त्राख्या, घटकपरकुलक- विवृतिः, कर्मकेलिः, शिवाद्रिस्त्यालोचनम् , पूर्वपश्चिका, पदार्थप्रवेश. निर्णयटीका, प्रकीर्णकविवरणम् , प्रकरणविवरणम् , काव्यकौतुकविव- रणम् , कथामुखतिलकम् , लध्वी प्रक्रिया, भेदवादविवरणम् , देवी- स्तावविवरणम , तत्वप्रकाशिका, शिवशक्त्यविनाभावस्तोत्रम् , वि. म्बप्रतिबिम्बवादः, परमार्थसङ्ग्रहः, मनुत्तरशतकम , प्रकरणस्तोत्रम् , वृहतीविमर्शिनी, नाटयालोचनम् , अनुत्तरतत्त्वविमर्शिनीवृत्तिः, इत्येव- १. 'देवी त्रिंशतिकेऽपि अस्य श्रीस्रोमानन्दपादेभ्यःप्रमृति त्रिकदर्शनवदेव गुरवः। त्रैयम्बकप्रसरसागरवीचिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः' । २. सद्विप्रतोतवदनोदितनाटथवेदतत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ॥ इति प्रमाणान्युपष्टम्भकानि । 9 .