पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
प्रथमोद्योतः


लोचनम्

प्रयोगः, न लक्षणायाम' इति, तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका । सा च पञ्चविधा । तद्यथा-अभिधेयेन संयोगात ; द्विरेफशब्दस्य हि योऽभिधेयो भ्रमरशब्दः द्वौ रेफौ यस्येति कृत्वा तेन भ्रमरशब्देन यस्य संयोगः सम्बन्धः षट्पदलक्षणस्यार्थस्य सोऽर्थो द्विरेफशब्देन लक्ष्यते, अभिधेयसम्बन्धं व्याख्यातरूपं निमित्तीकृत्य। सामी. प्यात् 'गङ्गायां घोषः । समवायादिति सम्बन्धादित्यर्थः, 'यष्टीः प्रवेशय' इति यथा । वैपरोत्यात् यथा-शत्रुमुद्दिश्य कश्चिद्ब्रवीति-'किमिवोपकृतं न तेन मम' इति । क्रियायोगादिति कार्यकारणभावादित्यर्थः । यथा-अन्नापहारिणि व्यवहारः प्राणानयं हरति इति । एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तम् । तथाहि-'शिखरिणि

बालप्रिया

सिंहो बटुरित्यादौ बटवादिशब्दप्रयोगः । न लक्षणायामिति । लक्षणास्थले लक्ष्य- वाचकपदप्रयोगो नेत्यर्थः । यथा 'गङ्गायां घोष' इत्यादौ न तीरादिवाचकपदप्रयोगः । फलितमाह-इति तत्रापीति । इतीत्यस्याहेति पूर्वेणापि सम्बन्धः । तत्रापि गौण- स्थलेऽपि । सैव लक्षणैव ।

"अभिधेयेन संयोगात्सामीप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा स्मृता" ॥

 इति वचनं खण्डश उपादाय व्याचष्टे-अभिधेयेनेत्यादि । अत्र संयोगप- देन वाच्यवाचकभावरूपस्सम्बन्धः, समवायपदेन तदितर आधाराधेयभावरूपस्सारूप्या- दिश्च विवक्षितः । “अभिधेयेन सामोप्यात्सारूप्यादिति चात्र पाठोऽस्ति । स एव भाक्तमाहुरित्यत्र पूर्व प्रदर्शितः । तेनेति । द्विरेफशब्दाभिधेयभूतेनेत्यर्थः । 'यस्यार्थ- स्येत्यन्वयः । संयोग इत्यस्य व्याख्यानम्-सम्बन्ध इति । वाच्य वाचकभावात्मक- स्सम्बन्ध इत्यर्थः । 'निमित्तीकृत्य लक्ष्यत' इति सम्बन्धः । लम्बन्धादिति। आधारा- धेयभावरूपसम्बन्धादित्यर्थः । किमिवोपकृतमिति । अत्रापकारो लक्ष्यत इति भावः । यथा काव्यप्रकाशे "उपकृतं बहुनामेत्यादि । प्राणानिति । प्राणशब्देनान्नं लक्ष्यत इति भावः । विश्वमेवेति । अमुख्यव्यवहारभूमिपतितं सर्वमेवेत्यर्थः । तथाहीति । तथा चेत्यर्थः । नन्वित्यादिना लक्षणास्तीत्यन्तेनोक्तं पूर्वपक्षमभ्युपगमेन


 १. वृत्तौ एकार्थाभावात्मकं शक्त्यन्तरं वैयाकरणा अभ्युपगच्छन्ति । तन्मतमा. श्रित्येदम् । न्यायनये तु द्विरेफशब्दस्य रेफद्वय मात्रमभिधेयम् । लक्षणा तु द्विरेफश- ब्दस्य स्ववाच्यरेफद्वयघटितभ्रमरपदवाच्यत्तसम्बन्धेन भ्रमररूपेऽर्थे । अत एवास्याः लक्षितलक्षणेति व्यवहारः शास्त्रेषु दृश्यते ।

 २. प्रतियोग्यनुयोग्युभयवृत्तिधर्म संसर्ग:वेनाङ्गीकुर्वतां वैयाकरणानां मतमवल- म्व्यैतत् । प्राचीना नैयायिकाः प्रतियोगिवृत्तिधर्ममेव, नवीनाश्चानुयोगि वृत्तिधर्ममेव, संसर्गत्वेनाभ्युपयन्ति । प्रपञ्चश्चास्य व्युत्पत्तिवादादौ द्रष्टव्यः ।

        २०६०