पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

इत्यत्राकस्मिकप्रश्न विशेषादिबाधकानुप्रवेशे सादृश्याल्लक्षणास्त्येव । नन्वत्राङ्गीकृतैव मध्ये लक्षणा, कथं तर्ह्युक्तं विवक्षितान्यपरेति ? तद्भेदोऽत्र मुख्योऽसंलक्ष्यक्रमात्मा विव- क्षितः । तद्भेदशब्देन च रसभावतदाभासतत्प्रशमभेदास्तदवान्तरभेदाश्च, न च तेषु लक्षणाया उपपत्तिः । तथाहि-विभावानुभावप्रतिपादके काव्ये मुख्येऽर्थे तावद्बाधकानु. प्रवेशोऽप्यसम्भाव्य इति को लक्षणावकाशः ?

 ननु किं बाधया, इयदेव लक्षणास्वरूपम्-'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इति । इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते, विभा- वानुभावयोः कारणकार्यरूपत्वात् , व्यभिचारिणां च तत्सहकारित्वादिति चेत्-मैवम् ; धूमशब्दाधूमे प्रतिपन्ने ह्यग्निस्मृतिरपि लक्षणाकृतैव स्यात् , ततोऽग्नेः शीतापनोद- स्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् । धूमशब्दस्य स्वार्थविश्रान्तत्वान्न तावति व्यापार इति चेत् , आयातं तर्हि मुख्यार्थबाधो लक्षणाया जोवितमिति, सति तस्मि-

बालप्रिया

परिहरति-नन्वत्राङ्गीकृतेति । 'शि खरिणी त्यादौ लक्षणाङ्गीकारः पूर्व प्रदर्शित एवे. त्यर्थः । पृच्छति-कथन्तर्हीति । वृत्तौ 'विवक्षितान्यपरेत्युक्तं कथं सङ्गच्छत इ. त्यर्थः । लक्षणायां सत्यां वाच्यस्य विवक्षितत्वाप्सम्भवादिति भावः । उत्तरमाह-त. द्भेद इति । वृत्तौ विवक्षितान्यपरवाच्यशब्देन तदवान्तरभेदो मुख्योऽसंलक्ष्यक्रमो विवक्षित इत्यर्थः । तद्भेदशब्देनेति । वृत्तौ 'तद्भेदप्रकार।' इत्यत्र तभेदशब्देने. त्यर्थः । तदवान्तरभेदाश्चेति । शृङ्गारहास्यादयश्चेत्यर्थः । अत्रापि लक्षणा किन्न स्यादत माह-न चेति । अनुपपत्ति विवृणोति-तथाहीति । बाधकानुप्रवे. शोऽपीत्यपिशब्दः प्रयोजनस्य समुच्चायकः ।

 शङ्कते-नन्विति । किं बाधयेति । अस्ति वा नास्ति वेति चिन्तितया मु. ख्यार्थबाधया किं फलमित्यर्थः । इयदेवेति । वक्ष्यमाणमेवेत्यर्थः । अभीति । अभि. धेयेनाविनाभूतस्य केनापि सम्बन्धेन सम्बद्धस्य प्रतीतिर्ज्ञानं तद्धतुर्वा । इतीति । इति भट्टवार्तिकोक्तमित्यर्थः । प्रकृते सङ्गमयति-इहेत्यादि। इह असंलक्ष्यक्रमव्यङ्गये ध्वनौ । 'रसादयः अविनाभूता इति हेतोर्लक्ष्यन्त' इति सम्बन्धः। अविनाभावमुपपा. दयति-विभावेत्यादि । कारणेत्यादि । रसं प्रतीति शेषः । समाधत्ते-मैव. मिति । मुख्यार्थबाधैव लक्षणाबीजमिति दर्शयिष्यन्नादावतिप्रसङ्गमाह-धूमशब्दा. दित्यादि । अग्नीत्यादि । अग्नेर्धूमाविनाभूतत्वादिति भावः । शब्दार्थ इति धूम. शब्दार्थ इत्यर्थः । उक्तातिप्रसङ्गं पूर्वपक्षी परिहरति-धूमशब्दस्येत्यादि । स्वार्थे. ति । स्वार्थे धूमत्वे तद्विशिष्टे वा । विश्रान्तत्वात् पर्यवसितबोधनव्यापारत्वात् । तावति अग्न्याद्यर्थे । तर्हि जितमिति सिद्धान्त्याह-आयातमित्यादि। जीवि.