पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
सटीकलोचनोपेतध्वन्यालोके


न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते ; तस्माद्भक्तिरलक्षणम् ।


लोचनम्

स्येत्यर्थः। यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन्न स्यादव्याप्तिः । न चैवम् ; अविवक्षितवाच्येऽस्ति भक्तिः 'सुवर्णपुष्पा' इत्यादौ । 'शिखरिणि' इत्यादौ तु सा कथम् । ननु लक्षणा तावद्गौणमपि व्याप्नोति। केवलं शब्दस्तमर्थं लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते-'सिंहो बटुः' इति । अर्थो वार्थान्तरं लक्षयित्वा स्ववाच- केन तद्वाचकं समानाधिकरणं करोति । शब्दार्थो वा युगपत्तं लक्षयित्वा अन्याभ्या- मेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकाद्गौणस्य भेदः। यदाह-'गौणे शब्द.

बालप्रिया

त्यादि । वृत्तौ 'न हि व्याप्यन्त' इत्यन्वयः। तत्तात्पर्यं विवृणोति-यत्रेत्यादि । 'शि- खरिणी'त्यादाविति । विवक्षितान्यपरवाच्य इति शेषः । सा कथमिति । भक्ति- र्न्नास्तीत्यर्थः । तथा चाव्याप्तिरिति भावः । अथ गौणस्थलेऽपि लक्षणायाः प्रसराद्वि- वक्षितान्यपरवाच्योदाहरणत्वेन प्रदर्शिते 'शिखरिणी'त्यादौ सा प्रवर्तत एवेति तत्र तदभावाभिधानमसङ्गतमिति पूर्वपक्षमभ्युपेत्य तदनुरोधेनापि विवक्षितान्यपरवाच्येत्या. दिग्रन्थं व्याख्यास्यन् शिष्य व्युत्पादनार्थं तत्पूर्वपक्षमुपक्षिपति-नन्वित्यादि । गौण. मपि 'सिंहो बटुरित्यादिस्थलमपि । व्याप्नोतीति । लक्षणासामग्रीसत्वादिति भावः । नन्वेवं गौणस्य लाक्षणिकाद्भेदः कुत इत्यत आह-'केवलमित्यादिना 'भेद' इत्य- न्तेन । शब्दः सिंहादिशब्दः । तमर्थ बटवाद्यर्थम् । तेनैव बटवाद्यर्थवाचकबटवा. दिशब्देनैव । सामानाधिकरण्यं भजते समानाधिकरणो भवति । शब्दयोस्सामा. नाधिकरण्यन्नाम भिन्नभिन्नरूपेणैकार्थप्रतिपादकत्वम् । लाक्षणिकात् गौणस्यायं विशेष इति भावः। एवमुत्तरत्रापि ज्ञेयम् । अर्थो वेति। अर्थः सिंहादिपदार्थः । अर्थान्तरं बटवाद्यात्मकम् । स्ववाचकेन सिंहादिपदेन । तद्वाचकं वटवादिशब्दम् । शब्दा- र्थौ वेति । शब्दार्थौ सिंहादिशब्दस्तदर्थश्च । तं वटवाद्यर्थम् । अन्याभ्यां बटवा. दिशब्दतदर्थाभ्याम् । 'ताभ्यामिति पाठेऽप्ययमेवार्थः । मिश्रीभवत इति । मिश्री. भवनं नाम शब्दयोरेकधर्मिबोधकत्वमर्थयोस्त्वभेदेनान्वयित्वम् । उक्तार्थोपष्टम्भक माह-गौण इत्यादि । गौणे गौणस्थले । शब्दप्रयोगः लक्ष्यवाचकपदप्रयोगः । यथा


 १. अयं ग्रन्थो मतान्तरपरतया नेयः । प्रकाशकृता तु लक्षणायामपि 'आयुघृत' 'स्थूणा इन्द्रः' इत्यादी लक्ष्यार्थवाचकशब्दः प्रयुक्तः । दर्पणादावप्येवं दृश्यते । अत एव सारोपासाध्यवसानाभेदी लक्षणायामपि भवत एव ।