पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
प्रथमोद्योतः


तस्मात्-

वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यवञ्जकस्यैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ १८ ॥
तस्मादन्यो ध्वनिरन्या च गुणवृतिः। अव्याप्तिरप्यस्य लक्षणस्य ।


लोचनम्

चैवमिति । न च प्रयोगे दुष्टता काचित् , प्रयोजन तयाविध्नेनैव प्रतीतेः । तेनाभिधैव मुख्येऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थत्वादन्यत्र प्रसरति । अत एव अमुख्योऽस्यायमर्थ इति व्यवहारः । तथैव च।मुख्यतया सङ्केतग्रहणमपि तत्रास्ती- त्यभिधापुच्छभूतैव लक्षणा ॥ १७ ॥

 उपसंहरति-तस्मादिति । यतोऽभिधापुच्छभूतैव लक्षणा, ततो हेतोर्वाचकत्व- मभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूत्वाच्च गुणवृत्तिः गौणलाक्षणिक- प्रकार इत्यर्थः । सा कथं ध्वनेर्यञ्जनात्मनो लक्षणं स्यात् ? भिन्नविषयत्वादिति । एत- उपसंहरति-तस्मादिति । यतोऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयत्वं तस्माद्हेतोरित्यर्थः । एवम् 'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति कारिकागता- तिव्याप्तिं व्याख्यायाव्याप्तिं व्याचष्टे-अव्याप्तिरप्यस्येति । अस्य गुणवृत्तिरूप.

बालप्रिया

कथमित्यत्र अभिधैवेत्यादि । 'अभिधैवान्यत्र प्रसरती'त्यन्वयः। अभिधा गङ्गादिपद- निष्टमभिधायकत्वन्तद्विशिष्टं गङ्गादिपदं वा । अन्यत्र मुख्यार्थप्रवाहादेरन्यस्मिस्ती- रादौ। अन्यत्र प्रसरणे हेतु:-अचरितार्थत्वादिति । पर्यवसितविशिष्टार्थप्रतीति- रूपस्वकार्यानुपधायकत्वादित्यर्थः । अत्रापि हेतुमाह-मुख्येऽर्थ इत्यादि । 'मुख्ये अर्थे प्रविवित्सुः बाधकेन निरुध्यमाने ति सम्बन्धः। बाधकेनेत्यनन्तरं विधुरो कृतेति च क्वचित् ग्रन्थे पाठः। अत एव उक्तादेव हेतोः । अमुख्योऽस्येति । यथा प्रवा- हादिकमुद्दिश्य गङ्गादिशब्दस्यायं मुख्यार्थ इति व्यवहारः, तथा तीरादिकमुद्दिश्यायम- मुख्यार्थ इति च व्यवहारोऽस्तीत्यर्थः । तथा च द्वयोरर्थत्वं तुल्यं मुख्यत्वामुख्यत्व. कृत एव भेद इति भावः। सङ्केतग्रहणमपि समानमित्याह-तथैवेत्यादि । यथा मु. ख्येऽर्थे सङ्केतग्रहणन्तथैव । सङ्केतेति । न हि शब्दस्य यः कश्चिदेवामुख्योऽर्थः कि- न्त्वयमर्थोऽस्य शब्दस्यामुख्य इति नियत एवेत्यतस्तथाविधोपदेशरूपस्य । अयमर्थो- ऽस्माच्छब्दाद्बोद्धव्य इति इच्छारूपस्य वा सङ्केतस्य ग्रहणमपीत्यर्थः । विस्तृतमिदं काव्यप्रकाशसङ्केते ॥ १७ ॥

 उपसंहरति-तस्मादितीति । तस्मादित्युपसंहरतीति च पाठः । तस्मादित्य- स्य कारिकया सम्बन्धं दर्शयंस्तत्पदं व्याचष्टे-यत इत्यादि । वाचकत्वाश्रितत्वं तन्निबन्धनत्वादिरूपं इति दर्शयति-तदित्यादि। गुणवृत्तिरित्यस्य व्यख्यानम्-गौणे-