पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
सटीकलोचनोपेतध्वन्यालोके


शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् ;


लोचनम्

तेति । बाधकेन विधुरीकृततेत्यर्थः । तस्येति शब्दस्य । दुष्टतैवेति । प्रयोजनावग- मस्य सुखसम्पत्तये हि स शब्दः प्रयुज्यते तस्मिन्नमुख्याथें । यदि च 'सिंहो बटुः' इति शौर्यातिशयेऽप्यवगमयितव्ये स्खलद्गतित्वं शब्दस्य तर्हि तत्प्रतीति नैव कुर्या- दिति किमर्थ तस्य प्रयोगः। उपचारेण करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्वेष्य तत्राप्युपचार इत्यनवस्था । अथ न तत्र स्खलद्गतित्वं, तर्हि प्रयोजनेऽवगमयितव्ये न लक्षणाख्यो व्यापारः तत्सामग्रद्यभावात् । न च नास्ति व्यापारः । न चासावभिधा, समयस्य तत्राभावात् । यद्वयापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः। न

बालप्रिया

त्वातिशयविशिष्टार्थलक्षणे प्रयोजने' इति पाठमभिप्रेत्यैवं व्याख्यातम्। 'चारुत्वातिशय विशिष्टार्थप्रकाशनलक्षण' इति पाठे तु कर्तव्य इत्यस्योत्पादयितव्ये इत्येवार्थः । प्रयोजने बोध्ये स्खलद्गतित्वस्य निषेधान्नामुख्यतापदेन तदेव विवक्षितमित्याह-बाधने- त्यादि । ननूक्तरूपामुख्यत्वाभ्युपगमः कथं दुष्टत्वापादकः । दुष्टत्वं हि व्याकरणसंस्कार- राहित्यादिरूपमिति शङ्कायां प्रतिपिपादयिषितार्थप्रतीत्यजनकत्वेन वैयर्थ्यम् ; तदत्र वविक्षितमित्याह-प्रयोजनेत्यादि । प्रयोजनावगमस्य शौर्यातिशयादेर्बोधस्य । सुखसम्पत्तये सुखेन जननाय । स शब्दः सिंहादिलक्षकशब्दः । तस्मिन्नमुख्यार्थ इति । वद्वाद्यर्थ इत्यर्थः । किमतस्तत्राह-यदि चेति । शौर्येति । यथा बटौ तथा शौर्यातिशयेऽपीत्यर्थः । तत्प्रतीतिं शौर्यातिशयप्रतीतिम् । किमर्थमिति । तत्प्रयो- गस्य वैयर्थ्यापात इत्यर्थः । अथ प्रयोजने ध्वननव्यापारं व्यवस्थापयिष्यन् उक्तमेवार्थं शङ्कापरिहाराभ्यां प्रदर्शयन्नाह-उपचारेणेत्यादि । 'करिष्यतीत्यत्र 'तत्प्रतीति तस्य प्रयोग' इति चानुषज्यते । तत्रापीति । शौर्यातिशयेऽपि लक्ष्ये सतीत्यर्थः । प्रयोजनान्तरमन्विष्यमिति । लक्षणायाः प्रयोजननियतत्वेनान्यत्प्रयोजनं किश्चिदेषि. तव्यमित्यर्थः । तत्रापीति । तस्मिन् प्रयोजनेऽपि उपचारे पूर्ववदङ्गीकार्ये तत्राप्यन्य. देवं तत्राप्यन्यदित्यनवस्था मूलक्षयकारिणी स्यादित्यर्थः । अतः स्खलद्गतित्वाभ्युप- गमो न युक्त इति भावः । ननु मा भूस्खलिद्गतित्वं, तथापि लक्षणाया अभावः कुत इत्यत आह-अथेत्यादि। व्यञ्जनां परिशेषयितुमाह-न चेत्यादि । समय- स्येति । सङ्केतस्येत्यर्थः । वक्ष्यमाणं वाचकत्वाश्रयेण गुणवृत्तेरवस्थानमुपपादयिष्यन्न। भिधाशेषत्वं लक्षणायास्तावदुपपादयति-तेनेत्यादि । तेन यतः स्खलद्गतेश्शब्दस्य व्यापारो लक्षणा, ततो हेतोः। अभिधापुच्छभूतैव 'लक्षणेत्यनेना य सम्बन्धः ।


उपादालक्षणाया अभावात्तीरादौ लक्षणलक्षणैव ; सापि तत्रैव, न शैत्यादौ, हेतोरभावात् इति तात्पर्यम् ।