पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
प्रथमोद्योतः


 तत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये यदि


लोचनम्

प्रयोजने तावद्वितीयो व्यापारः । न चासौ लक्षणैव ; यतः स्खलन्ती बाधकव्यापा- रेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा । न च प्रयोजनमवगमयतः शब्दस्य बाधकयोगः। तथाभावे तत्रापि निमित्तान्तरस्य प्रयोज- नान्तरस्य चान्वेषणेनानवस्थानात् । तेनायं लक्षणलक्षणाया न विषय इति भावः । दर्शनमिति ण्यन्तो निर्देशः । कर्तव्य इति । अवगमयितव्य इत्यर्थः । अमुख्य.

बालप्रिया

'तत्रेत्यस्य व्याख्यानं-प्रयोजन इति । तावदिति सम्प्रतिपत्तौ। द्वितीय इति । अमुख्यार्थविषयव्यापारादन्य इत्यर्थः । व्यापार इति । अवश्यमभ्युपेय इति शेषः । तर्हि तद्विषयोऽपि लक्षणाव्यापारोऽभ्युपेयतामित्यत्राह-न चेति । असा- विति । द्वितीयो व्यापार इत्यर्थः । न च लक्षणैवेत्यत्र हेतुत्वेन कारिकान्त्यपादं पात- यति-यत इति । तथा च 'नैव स्खलद्गति रित्यनेन लक्षणाया अभावः प्रतिपाद्यत इति भावः । बाधकति । बाधकप्रमाणव्यापारणेत्यर्थः । विधुरीक्रियमाणा कुण्ठी- क्रियमाणा । अवबोधनेति । स्वार्थबोधनेत्यर्थः । तदीय इति । तथाविधशब्दस- म्बन्धीत्यर्थः । भवत्वेवं ततः किमत आह-न चेति । अवगमयत इति । अवग- मनकाल इति भावः । शब्दस्येति । तटाद्यर्थवृत्तेर्गङ्गादिशब्दस्येत्यर्थः । बाधकयोग इति । घोषादिपदान्तरार्थान्वयायोग्यार्थकत्वरूपबाधितार्थकत्वमित्यर्थः । अभ्युपगम्या. प्याह-तथेति । तथा भावे बाधकयोगे सति । तत्रापोति । प्रयोजने बोध्येऽपी. त्यर्थः । निमित्तेति । सम्बन्धरूपनिमित्तेत्यर्थः । अन्वेषणेनानवस्थानादिति । 'न च बाधकयोग' इत्यनेनास्य सम्बन्धः । लक्षितेन तीरादिना लक्षणया प्रयोजनरूपार्थः प्रत्याय्यत इति केचित् ; तन्मतन्निराकरोति-तेनेत्यादि । तेन बाधकयोगाभावेन । अ- यमिति । प्रयोजनरूपार्थ इत्यर्थः । न विषय इति। किन्त्वन्य एव तद्विषय इति भावः।

यथा-"आ हन्त किमिदं तन्वि नेत्रयोः श्रावणस्तव ।
शरत्कपोले ग्रीष्मोऽङ्गे शिशिरो मुखपङ्कजे" ॥ इति ।

 अत्र श्रावणादिपदेन वर्षादिकं लक्ष्यते, तेनाश्रुपातादिकञ्च । अतो लक्षितल. क्षणाप्रयोजनमत्रोत्कण्ठातिशयः । तत्र श्रवणादिपदेनाश्रुपातादिरेव लक्ष्यत इत्यतो लक्षितलक्षणाया अभावादयन्न तद्विषय इत्यर्थ इति केचित् । 'दर्शनं प्रत्यायनेति यद्व्याख्यातन्तदुपपादयति-दर्शन मिति । अवगमयितव्य इत्यर्थ इति । 'चारु.


 १. तेनायमिति । तेन = स्खलद्गतित्वाभावेन । अयं = =शैत्यपावनस्वादिरूप- प्रयोजनात्मकः, लक्षणलक्षणाया न विषयः = लक्षणलक्षणाप्रयोज्यविषयतावान्नेत्यर्थः । अपि तु तीरादिरेव । अर्थात् 'गङ्गायां कोष इत्यादौ लक्ष्यार्थस्य शक्यार्थासंवलितत्वेन