पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
सटीकलोचनोपेतध्वन्यालोके


अपि च---

मुख्यां वृत्तिं परित्यज्य गुणवृत्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ १७ ॥


लोचनम्

तदा भक्तिसन्निधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिव्याप्तिः । अभ्युपगम्यापि ब्रूमः- भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः । तथापि यद्विषयो लक्षणाव्यापारोन तद्विषयो ध्वननव्यपारः । न च भिन्नविषययोधर्मधर्मिभावः, धर्म एव च लक्षणमित्युच्यते । तत्र लक्षणा तावदमुख्यार्थविषयो व्यापारः। ध्वननं च प्रयोजन विषयम् । न च तद्वि. षयोऽपि द्वितीयो लक्षणाव्यापारो युक्तः, लक्षणासामग्यभावादित्यभिप्रायेणाह-अपि चेत्यादि । मुख्या वृत्तिमभिधाव्यापारं परित्यज्य परिसमाप्य गुणवृत्या लक्षणारूप- यार्थस्यामुख्यस्य दर्शनं प्रत्यायना, सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते, तत्र

बालप्रिया

क्तव्याप्त्यभावेनेत्यर्थः । इत्यतिव्याप्तिरिति । एवरूपातिप्रसङ्ग इत्यर्थः । उक्तेति शेषः । वदतीत्यादौ लावण्यादिशब्दे च भक्तेस्सत्वेऽपि ध्वन्यभावस्य दर्शितत्वादि- त्यर्थः । किमभ्युपगम्यते, किमुच्यत इत्यत्र क्रमेणोभयमाह-भवत्वित्यादि । भिन्न विषयकत्वमुपपादयति-तत्रेयादि । अमुख्यति । अमुख्यार्थो गङ्गादिशब्दस्य ती. रादिः । प्रयोजनेति । गङ्गादिगतशैत्यपावनत्वादीत्यर्थः । तद्विषयोऽपीति । प्रयो जनविषयकोऽपीत्यर्थः । लक्षणासामग्रीति । बाधादीत्यर्थः । नन्वभिधामन्तरेण लक्षणावृत्तेरसम्भवात्तत्परित्यागः कथमित्यतः परित्यज्येति पदं प्रकृतानुगुणतया व्याचष्टे- परिसमाप्येति । न तदवधीरणमिह तत्परित्यागः, किन्तु तद्गोचरार्थाङ्गीकारपूर्वकं तदतिलङ्घनरूपमेव तदारकमर्थान्तरबोधनार्थं धावनमित्यर्थः । फलमित्यत्र द्वितीया. र्थमाह-कर्मेति । फलपदार्थमाह-प्रयोजनरूपमिति । क्रियत इति शेषपूरणम् ।


 १. न च भिन्नविषय इति । यत्र यत्र भक्तिस्तत्र तत्र ध्वनिरिति व्याप्तौ रूढय- नादरास्पदप्रयोजनस्थले भक्तेर्ध्वन्यभावववृत्तित्वेन व्यभिचारः प्राक्प्रतिपादितः । इदानी तादृशीं व्याप्तिमभ्युपगम्यापि तयोर्लक्ष्यलक्षणभाव एव न सम्भवतीति प्रतिपा- दयति। तथा हि-यो हि यवृत्तिर्भवति स तल्लक्षणमित्युच्यत इति 'धर्म एव च लक्ष. णमित्युच्यत' इति ग्रन्थेनामिधाय, भक्तिध्वन्योविभिन्नविषयकत्वाद्धर्मधर्मिभावो न सम्भवतीति न च भिन्नविषययोधर्मर्मिभावः' इत्यनेनोपपादयति । तथा च 'गङ्गायां घोष' इत्यादौ विषयतासम्बन्धेन भक्तः तीरं, ध्वनेश्च शैत्यपावनस्वादिकमधिकरणमि- त्येकविषय घटितस्वविषयविषयकत्वरूपपरम्परासम्बन्धेन भक्तेः ध्वन्यवृत्तित्वान्न तलक्षणत्वमित्यभिप्रायः।