पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
प्रथमोद्योतः


न्नपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते । न तथाविधशब्दमुखेन ।


लोचनम्

रूढत्वादेव त्रितयसन्निध्यपेक्षणव्यवधानशून्याः । यदाह-

निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् ।

 इति । ते तस्मिन् स्व विषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति ; न तो ध्वनिव्यवहारः । उपचरिता शब्दस्य वृत्तिरह्गौणो ; लाक्षणिकी चेत्यर्थः । आदिग्रहणेना- नुलोम्यं प्रातिकूल्यं सब्रह्मचारीत्येवमादयः शब्दा लाक्षणिका गृह्यन्ते । लोम्नामनुगतम- नुलोमं मर्दनम् । कूलस्य प्रतिपक्षतया स्थितं स्रोतः प्रतिकूलम् । तुल्यगुरुः सब्रह्मचारी इति मुख्यो विषयः। अन्यः पुनरुपचरित एव । न चात्र प्रयोजनं किञ्चिदुद्दिश्य लक्ष. णा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः।

 ननु 'देवडिति लुणाहि पलुत्रम्मिगमिज्वालवणुज्वलं गुमरिफोल्लपरण्यः (१) इत्यादौ लावण्यादिशब्दसन्निधानेऽस्ति प्रतीयमानाभिव्यक्तिः; सत्यम् , सा तु न लावण्यश- ब्दात् । अपि तु समग्रवाक्यार्थप्रतीत्यनन्तरं ध्वननव्यापारादेव । अत्र हि प्रियतमा- मुखस्यैव समस्ताशाप्रकाशकत्वं ध्वन्यत इत्यलं बहुना । तदाह-प्रकारान्तरेणेति । व्यञ्जकत्वेनैव । न तूपचरितलावण्यादिशब्दप्रयोगादित्यर्थः ॥ १६ ॥

 एवं यत्र यत्र भक्तिस्तत्र तत्र ध्वनिरिति तावन्नास्ति । तेन यदि ध्वनेर्भक्तिलक्षणं

बालप्रिया

तिष्ठत एवेत्यर्थः । निरूढा इति । काञ्चिल्लक्षणाः। सामर्थ्यात् नियमेन प्रयोगसा. मर्थ्यात् अभिधानवद्भवन्ति । 'प्रयुक्ता' इत्यादिकारिकांशमनुषङ्गेण व्याचष्टे-ते त- स्मिन्नित्यादि । तेषु चोपचरितशब्दवृत्तिरिति ग्रन्थं व्याचष्टे-उपचरितेत्यादि । 'लावण्याद्या' इत्यत्रादिपदार्थमाह-आदीत्यादि । अन्य इति । अनुरोधी विरोधी तुल्य इति लोकप्रसिद्धोऽर्थ इत्यर्थः ।

 'तथाविध! इत्यादि 'मुखेनेत्यन्तं वृत्तिग्रन्थं शङ्कासमाधानाभ्यां विवृणोति-नन्वि. त्यादि। पुस्तके दृश्यमानाया 'देवडित्यादिगाथाया ग्रन्थेषु तत्र तत्राक्षरभेदा दृश्यन्ते। अतश्चास्याः स्वरूपं छायां च निश्चेतुं न शक्नोमि । सहृदया निश्चिन्वन्तु । 'प्रियत. मामुखस्यैवेति 'प्रियतमस्यै वे ति च पाठः । व्यञ्जकत्वेनैवेति । अर्थगतव्यञ्जन- व्यापारेणैवेत्यर्थः । 'न तथाविधे'त्यादिकं व्याचष्टे न तूपचरितेति ॥ १६ ॥

 'अपिचेत्यादिग्रन्थमवतारयिष्यन्नुक्तमनुवदति-एवमित्यादि । तेनेति । उ.


 १. मुख्यार्थवाधमुख्याथेयोगप्रयोजनप्रतिपत्तिव्यवधानशून्या इत्यर्थः । तस्तु-निरूढलक्षणास्थालेऽपि मुख्यार्थबाधमुख्यार्थयोगावपेक्ष्येते एव, प्रयोजनमात्रं नापेक्ष्यते । अन्यथा लक्षणे स्थितिरेव कथं स्यात् । अभिधातो भेदश्व कोऽवतिष्ठेत । अत एव निरूढोदाहरणे 'कर्मणि कुशल' इत्यादौ 'कुशग्रहणाययोगात्' इत्यादिकाव्य- प्रकाशग्रन्थोऽपि सङ्गच्छते इति । वस्तु-