पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
सटीकलोचनोपेतध्वन्यालोके


यतः-

उक्त्यन्तरेणाशक्यं यत्तचारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां विभ्रद्ध्वन्युक्तेर्विषयीभवेत् ॥ १५ ॥

अत्र चोदाहृते विषये नोवत्यन्तराशक्य चारुत्वव्यक्तिहेतुः शब्दः । किञ्च-

रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ १६ ॥
तेषु चोपचरितशब्दवृत्तिरस्तीति । तथाविधे च विषये क्वचित्सम्भव.


लोचनम्

 यत उक्त्यन्तरेणेति । उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थव्यापार- विशेषेणेत्यर्थः । शब्द इति पञ्चस्वर्थेषु योज्यम् । ध्वन्युक्तेर्विषयीभवेदिति-ध्व. निशब्देनोच्यत इत्यर्थः । उदाह्रत इति । वदतीत्यादौ ॥ १५ ॥

 एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्त्वा यत्र मूलत एव प्रयोजनं नास्ति,भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याह-किञ्चेति । लावण्याद्या ये शब्दाः स्वविषयाल्लवणरसयुक्तत्वादेः स्वार्थादन्यत्र हृद्यत्वादौ रूढाः

बालप्रिया

 'उक्त्यन्तरेणेत्यत्र उक्तिशब्दो व्यापारवाची, अन्तरशब्दश्च ध्वन्यपेक्षयान्यवा- चीत्याह-ध्वन्यतिरिक्तेनेत्यादि । स्फुटेन व्यवहारभूमिषु प्रसिद्धेन । 'शब्दो व्यञ्जकतामित्यत्रत्यशब्दपदार्थमाह-पञ्चस्विति । शब्द्यते अभिधीयत इति वाच्यः, शब्द्यतेऽनेनेति वाचकः, शब्द्यते व्यज्यत इति व्यङ्गयः, शब्दनमिति व्यापारः । उक्तचतुष्टयचयत्वात्समुदायश्चात्र शब्दपदार्थ इत्यर्थः। उदाहृते विषय इत्यस्य विव- रणम्-वदतीत्यादाविति ॥ १५ ॥

 मुलत एवेत्यादि । ध्वनौ तावत् प्रयोजनं तस्यादरास्पदत्वञ्चेति द्वयमपेक्षितं, तयोर्मूलभूतं प्रयोजनमेव नास्तीत्यर्थः । स्वविषयशब्देन स्वमुख्यार्थो विवक्षित इत्या- ह-लवणेत्यादि । रूढत्वोक्तिः प्रयोजनाभावप्रकटनात्याह-रूढत्वादेवेति । व्यवधानमन्तरेण स्वार्थसमर्पकत्वं हि रूढत्वं, तदिह मुख्यार्थबाधतद्योगप्रयोजनत्रय- सान्निध्यापेक्षणरूपव्यवधानशून्यत्वं रूढशब्देन दर्शितमिति प्रयोजनराहित्यमत्र व्यव.


 १. मूलमेव मूलतः-'आद्यादित्वात्प्रथमान्तात्तसिः । आश्रयभूतमित्यर्थः । तथा च यत्र आदरास्पदत्वादेराश्रयभूतं प्रयोजनमेव नास्ति, तत्र निरूढलक्षणास्थले ध्वनिव्यवहारस्य का शङ्कापीति भावः ।