पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
प्रथमोद्योतः


तथा--

परार्थे यः पीडाभनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यमिमतः ।

न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥

इत्यत्रेक्षुपक्षेऽनुभवतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेविषयः ।


लोचनम्

दुःसहो जातः, मृदुकत्वादेव । अन्यस्य दत्तो मृदुः प्रदारोऽन्यस्य च सम्पद्यते । दुस्सहश्च मृदुरपोति चित्रम् । दानेनात्र फलवत्वं लक्ष्यते ।

 तथा-परार्थेति । यद्यपि प्रस्तुतमहापुरुषापेक्षयानुभवतिशब्दो मुख्य एव, तथाप्य प्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेनासम्भवता पीडावत्त्वं लक्ष्यते; तच्च पीडयमानत्वे पर्यवस्यति । नन्वस्त्यत्र प्रयोजनं तत्किमिति न ध्वन्यत इत्या शङ्कयाह-न चैवंविध इति ॥ १४ ॥

बालप्रिया

उचितो यः क्रीडायोगः क्रीडाप्रसङ्गः, यता-उचितायां क्रीडायां यो योगः सम्भवेत्तेन हेतुना । दत्त इति सम्बन्धः। 'सपत्नीनां दुस्सहो जात' इत्यत्र गम्यं हेतु विशेषण- द्वारा दर्शयति-चौभाग्येत्याद्यप्राप्तानामित्यन्तेन । · सौभाग्यसूचकत्वे हेतुन्दर्शय- ति-मृदुकत्वादेवेति । मृदुकोऽपीत्यपिशब्दसूचितं विरोधं विशदयति-अन्यस्ये. त्यादि । एकस्य दत्तोऽन्यस्य सम्पद्यत इत्येकः, मृदोस्सुसहतया मृदुरपि दुस्सह इत्य: न्यश्च विरोध इत्यर्थः । अत्र मुख्यार्थस्य दानस्य बाधात्प्रहारो दत्त इत्यत्र दानेन दान- साध्यं फलवत्वं लक्ष्यत इत्याह-दानेनेत्यादि । फलवत्वमिति। कनिष्ठभायाश्चरि- तार्थत्वमित्यर्थः । प्रयोजनञ्च प्रहारस्य सुखोपभोग्यत्वम् । तच्च नादरास्पदम् ।

 परार्थ इति । इक्षुः परार्थ पीड्यते । महापुरुषश्च परार्थं पीडामनुभवति। इक्षुर्भ- ज्यमानोऽपि माधुर्यवान्। पुरुषोऽपि परुषीकरणे सत्यपि अनुकूलस्वभाव एव । विकारो गुडादिः कोपादिश्च । वृद्धिः परिपोषोऽभ्युदयश्च । अक्षेत्रमूषरभूमिरनुचितस्थानञ्च । अत्रेक्षुपक्षे 'अनुभवतिशब्द' इति वृत्युक्तं लाक्षाणिकत्वमुपपादयति-यद्यपीत्या. दिना । अनुभवनेनासम्भवतेति । अनुभवनं हि ज्ञानं मुख्यार्थभूतं तच्चेक्षोरचेत. नत्वादसम्भवदित्यर्थः । तच्च पीडावत्वञ्च । पीड्यमानत्व इति। मद्यमानत्व इत्यर्थः । प्रयोजनञ्च कष्टावस्धत्वन्तदपि नादरास्पदम् । नन्वित्यादि । ध्वन्यत इति । ध्वनि- व्यवहारविषय इत्यर्थः । वृत्तौ ‘एवंविध' इति । ईदृशमनादरपदं प्रयोजनमित्यर्थः । 'ध्वनेर्विषयः ध्वनिव्यवहारस्य विषयः ॥ १४ ॥

     १९ ध्व०