पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
सटीकलोचनोपेतध्वन्यालोके


तथा-

अज्जाएँ पहारो णवलदाए दिण्णो पिएण थणबट्टे ।
मिउओ वि दूसहो व्बिअ जाओ हिअए सवत्तीणम् ॥
( भार्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे ।
मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् ।।

इतिच्छाया )


लोचनम्

चारुत्वमधिकं जातम् ? अनेनैवाशयेन वक्ष्यति-यत उक्त्यन्तरेणाशक्यं यदिति । अवरुन्धिजइ आलिङ्गयते । पुनरुक्तमित्यनुपादेयता लक्ष्यते, उक्तार्थस्यासम्भवात् ।

कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः ।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥

 अत्र ग्रहणेनोपादेयता लक्ष्यते । हरणेन तत्परतन्त्रतापत्तिः ।  तथा-अज्जेति । कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन

मृदुकोऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं तत्क्रीडासंविभागमप्राप्तानां हृदये

बालप्रिया

वदतीत्यादिवर्णन इत्यर्थः । किमिति उभयत्र निषेधे । गूढतया वर्णनमात्रं न ध्वनिव्यवहारे प्रयोजकं, किन्तु स्वशब्दवाच्यावस्थानुद्भिन्नचारुत्वान्तरकारि गूढतया वर्णनमेव, यथा 'सुवर्णपुष्पामित्यादौ। 'वदती'त्यादौ तु गूढत्वेनागूढत्वेन वा वर्णनेऽपि चारुत्वविशेषस्य कस्यचिदनुपलम्भात्तद्वैपरीत्यमिति भावः । उक्तमर्थं वक्ष्यमाणकारिकया संवादयति-अनेनैवेति । परिम्लानमिति । रत्नावल्यां नायकस्योक्तिः । उभयतः द्वयोर्भागयोः। तनोः कृशस्य। व्यस्तो वैविध्येन क्षिप्तो न्यासस्सन्निवेशो यस्य। श्लथ- योर्भुजलतयोः क्षेपा शय्याप्रान्तेषु निपातनानि वलनानि विवर्तनानि च ।पीनेत्यादिहेतुः म्लानिमादिकार्यदर्शनेनानुमायोक्तः । अत्र शयनस्याचेतनस्य मुख्यार्थवचनकर्तृत्वा. न्वयानुपपत्या मुख्यार्थबाधेन ज्ञापनं सादृश्याल्लक्ष्यते, स्फुटीकरणप्रतिपत्तिश्च प्रयोज. न मुक्तम् । चुम्ब्यत इति । नायिकयेति शेषः । प्रियो जनः शतकृत्वश्चुम्ब्यत इत्या- द्यन्वयः । नास्ति पुनरुक्तमिति । चुम्बनादेः पुनरुक्तत्वन्नास्तीत्यर्थः । अत्र चु- म्बनादौ पुनर्वचनरूपमुख्यार्थस्य बाधालक्षणेत्याह-पुनरुक्तमित्यादि । उक्तार्थ. स्येति । वचनरूपार्थस्येत्यर्थः । अत्र प्रयोजनमधिकफलशालित्वरूपं, तच्च पूर्ववन्नाद- रास्पदमिति बोध्यम् ।

 कुपिता इति। 'गृहीता' इत्यत्र पुरुषेणेति शेषः । अत्र 'गृहीता हरन्ती'त्यनयो. र्मुख्यार्थयोरुपादानहरणयोरसम्भवादाह-ग्रहणेनेत्यादि । अत्रात्मसात्करणमत्यन्तं वैवश्यञ्च क्रमेण लक्षणयोः प्रयोजनम् । तदपि पूर्ववन्न इलाध्यम् । उचितेति । ।