पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
प्रथमोद्योतः


वहाराः कवयो दृश्यन्ते । यथा-

 परिम्लानं पीनस्तनजधनसङ्गादुभयत.

स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।

 इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः

कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् ।।

तथा--

चुम्बिज्जद्इ असहुत्तं अवरुन्धिज्जइ सहस्सहुत्तम्मि ।
विरमिअ पुणो रमिज्जइ पिओ जणो णत्थि पुनरुत्तम् !!
( शतकृत्वोऽवरुध्यते सहस्रकृत्वः चुम्व्यते ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ।।
इति च्छाया)

तथा-

कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाओ।
जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ॥


लोचनम्

 वयं तु ब्रूमः-प्रसिद्धिर्या प्रयोजनस्यानिगूढतेत्यर्थः । उत्तानेनापि रूपेण तत्प्रयो. जनं चकासन्निगूढतां निधानवदपेक्षत इति भावः । वदतीत्युपचारे हि स्फुटीकरणप्रति. पत्तिः प्रयोजनम्। यद्यगूढं स्वशब्देनोच्येत, किमचारुत्वं स्यात् ? गूढतया वर्णने वा किं

बालप्रिया

 परमतरीत्या प्रसिद्धिशब्दं व्याख्यातुमुपक्रमते-वयन्त्विति । प्रसिद्धिः प्रयो- जनस्य प्रकर्षण प्रकटतया सिद्धिः प्रतीतिः ; ध्वननातिरिक्तव्यापारविषयत्वयोग्यतया स्फुटतरावभासमानत्वमिति यावत् । तदनुरोधेन तद्विपरीतध्वननव्यापारविषयत्वानर्ह- तया तदनुरोधेनैव । प्रवर्तितो व्यवहारो यैरित्यर्थमभिप्रेत्य व्याचष्टे-प्रसिद्धियति । प्रयोजनस्य अनिगूढता प्रकटता या, सात्र प्रसिद्धिशब्दार्थः ; न तु पूर्वोक्त इति भावः ।

 ननु ध्वनिस्थलेऽपि प्रयोजनस्य स्फुटावभासमानत्वादनिगूढत्वं समानमिति शङ्कायां विशेषमाह-उत्तानेनेत्यादि । तत् प्रयोजनं ध्वनिस्थलीयं प्रयोजनम् । उत्तानेन स्फुटावभासमानेन । 'रूपेण चकासदपीति योजना। प्रकाशमानमपीत्यर्थः निगूढतां नितरां स्फुटव्यवहारदशानाविर्भाविचारुत्वसम्पादिनी गोप्यमानतामित्यर्थः । निधानवत् निधिवत् अपेक्षते । 'वदती त्यादौ च नैवमित्याह-वदतीत्यादि । स्फु. टीत्यादि । 'तद्रूपं प्रयोजनमगूढं सत् स्वशब्देनोच्येत यदोत्यन्वयः । स्फुटं तत्स- न्तापं गमयतीत्यादि निर्दिश्येत यदीत्यर्थः। गूढतया वर्णने वेति। 'कुशाङ्गचास्सन्तापं ।