पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
सटीकलोचनोपेतध्वन्यालोके


मा चैतत्स्याद्भक्तिलक्षणं ध्वनेरित्याह-..

अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ १४ ॥
नैव भक्त्या ध्वनिलक्ष्यते । कथम् ? अतिव्याप्तेरव्याप्तेश्च । तत्राति.

व्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् । यत्र हि व्यङ्ग्य. कृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्य.


लोचनम्

हि प्रयोजनलक्षणम् । तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येक तत्त्वं स्यात् । द्वितीयं पक्षं दूषयति---अतिव्याप्तेरिति । असाविति ध्वनिः । तयेति भक्त्या । ननु ध्वननमवश्यम्भावीति कथं तद्व्यतिरिक्तोऽस्ति विषय इत्याह-महत्सौष्ठवमिति । अत एव प्रयोजनस्यानादरणीयत्वाद्व्यञ्जकत्वेन न कृत्यं किञ्चिदिति भावः। महद्ग्र- हणेन गुणमात्रं तद्भवति । यथोक्तम्-'समाधिरन्यधर्मस्य क्वाप्यारोपो विवक्षितः इति दर्शयति। ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह-प्रसिद्भध्यनुरोधेति । परम्परया तथैव प्रयोगात् ।

बालप्रिया

तत्रापीति । तादृशोदाहरणेष्वपीत्यर्थः । लक्षणास्तीति । अयं भावः- यदि भक्ति- ध्वनिश्चैकं तत्वं स्यात्तदा ह्युदाहृते विषये ध्वनिसद्भावो लक्षणाया अभावो वा स्यात् । न चैतदुभयमपि । तेन लक्षणात्मिकाया भक्तेर्ध्वनिविविक्तस्वरूपत्वनिश्चयान्नैकत्व- शङ्कावकाश इतीममर्थन्दर्शयितुं मात्रग्रहणमिति । द्वितीयं पक्षमिति । 'भक्ति ध्वनेर्लक्षणमिति पक्षमित्यर्थः । वृत्तौ ‘मा चैतदित्यादेः भक्ति ध्वनिश्चैकं तत्वमि. त्येतन्मास्तु । भक्तिर्ध्वनेलक्षणमस्त्विति शङ्कायामाहेत्यर्थः । 'यत्र होत्यादिग्रन्थ- मवतारयति-नन्वित्यादि । ध्वननमवश्यम्भावीति । लक्षणायामिति शेषः तात्पर्यमाह-अत एवेत्यादि । अत एव महतः सौष्ठवस्याभावादेव । व्यञ्जक- त्वेन व्यञ्जनव्यापारेण । न कृत्यं किञ्चिदिति ।व्यञ्जनस्य सद्भावमात्रन्न ध्वनिव्यवहारे प्रयोजकं, किन्तु चारुत्वातिशयशालित्वमेव ।तच्चात्र नास्तीति न ध्वनिव्यवहारविषयत्वमिति भावः । गुणमात्रमिति । बन्धस्य कश्चन गुण एवे. त्यर्थः । तदिति । व्यञ्जकत्वमित्यर्थः । 'भवतीति 'दर्शयतीत्यन्वयः। महत्पदेन व्यङ्गयकृतकिञ्चित्सौष्ठवस्य प्रदर्शनादिति भावः । समाधिरिति । समाधिस्तन्नामा गुणः । अन्यस्याप्रस्तुतस्य यो धर्मस्तस्य । क्वापि प्रस्तुते वस्तुनि। 'कुमुदानि निमीलन्ती'त्यादीन्यस्योदाहरणानि । 'प्रसिद्धयनुरोधे'त्यत्र प्रकृष्टा सिद्धिः प्रसिद्धिः, सिद्धिर्नाम व्यवहारस्य प्रयोगमार्गाधिरोहः, तस्य प्रकर्षश्चाविच्छिन्नपारम्पर्यागतत्वमि. त्याशयेन प्रसिद्धिपदार्थमाह-परम्परयेति । ।