पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
प्रथमोद्योतः


यदप्युक्तं भक्तिर्ध्वनिरिति, तत्प्रतिसमाधीयते--

भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः
अयमुक्तप्रकारो ध्वनिर्भवत्या नैकत्वं बिभर्ति भिन्नरूपत्वात् । वाच्य-

व्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यायप्राधा- न्ये स ध्वनिः । उपचारमानं तु भक्तिः ।


लोचनम्

प्रथमं पक्षं निराकरोति-

 भक्त्या बिभर्तीति । उक्त प्रकार इति पञ्चस्वर्थेषु योज्यम्-शब्देऽर्थे व्यापारे व्यङ्गर्थे समुदाये च। रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति । तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेनेति यावत् । प्रकाशनं द्योतनमित्यर्थः। उपचारमा- त्रमिति । उपचारो गुणवृत्तिलक्षणा। उपचरणमतिशयितो व्यवहार इत्यर्थः । मात्रश- ब्देनेदमाह-यत्र लक्षणाव्यापारात्तृतीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तु. स्थित्या सम्भवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादसत्कल्पः । 'यमर्थमधिकृत्य' इति

बालप्रिया

पर्यायवदिति । इन्द्रः शक्र इत्यादिपर्याय शब्दवाच्ययोरिवेत्यर्थः। तादूप्यमैक्यम् । पृथिवीत्वमिवेत्यादि । यथा पृथिवीत्वं पृथिव्या जलादिव्यावर्तकधर्मरूपत्वेन लक्षणं, तया भक्तिः किं ध्वनेर्लक्षणमित्यर्थः । उतेत्यादि। काकवद्देवदत्तगृहमित्यत्र यथा काकस्सम्भवमात्रात् कदाचित्सत्वमात्रेण देवदत्त गृहस्योपलक्षणं, तथा भक्तिः किं ध्वनेरुपलक्षणमित्यर्थः। 'अयं ध्वनिः भक्त्येकत्ममैक्यन्न बिभर्तीति कारिकायामन्वयः। शब्द इत्यादिसप्तम्यन्तपञ्चकस्य 'अर्थष्वित्यनेन सम्बन्धः । 'तात्पर्येणेत्येतद्वयाचष्टे- विश्रान्तीति । गुणवृत्तौ लक्षणायाञ्च कथमुपचारशब्दप्रवृत्तिरित्यत आह-उपचर- णमिति । यस्मिन्नर्थे यस्य शब्दस्य व्यवहारः प्रसिद्धः, तमतिलङ्घ्य तत्सम्बद्धेऽन्य. स्मिन्नर्थे तस्य शब्दस्य व्यवहारोऽतिशयितो व्यवहारः। 'उपचारमात्रमिति मात्रशब्द. प्रयोजनमाह-मात्रशब्देनेत्यादि । यत्रेति । परिम्लानमित्यायुदाहरणेष्वित्यर्थः । प्रयो. जनेत्यादि । तत्र हि वदतीत्यस्य सादृश्यान्निमित्ताद्गमयतीत्यर्थे लक्षणा, तस्याः प्रयो. जनं सन्तापस्य स्फुटतया प्रतिपत्तिरिति ध्वननव्यापारो मुख्यवृत्तिपरित्यागान्यथानुप. पत्तिरूपया वस्तुस्थित्या सम्भवन्नपीत्यर्थः। अनुपयुज्यमानत्वेनेत्यादि । तत्प्र- योजनस्य चारुत्वविशेषाभावादिति भावः । ननु प्रयोजनविषयत्वादेव तस्याद्रियमा- णत्वमवश्यम्भावीति कथमसत्कल्पत्वमिति शङ्कायां तद्व्यापारविषयस्य न मुख्यं प्रयोजनत्वं तल्लक्षणासमन्वयात् , किन्त्वमुख्यमेवेति प्रदर्शयितुं न्यायसूत्रकारोक्तं मुख्यप्रयोजनलक्षणमाह--यमिति । 'यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनं' इति सूत्रम् ।