पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

चाटुविरचनात्मकविभावोद्दीपनं व्यङ्गयम् ।

 अत्र च त्रय एव व्यापारा:-अभिधा तात्पर्य ध्वननं चेति । मुख्यार्थवाधाद्यभावे मध्यमकक्ष्यायां लक्षगायास्तृतीयस्या अभावात् । यदि वाकस्मिकविशिष्टप्रश्नार्थानुपपत्ते. र्मुख्यार्थबाधायां सादृश्याल्लक्षणा भवतु मध्ये । तस्यास्तु प्रयोजनं धन्यमानमेव, तत्तु. र्यकश्यानिवेशि, केवलं पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारे सहकारि । इह त्वभिधा- तात्पर्यशक्ती । वाक्यार्थसौन्दर्यादेव व्यङ्गयप्रतिपत्तेः केवलं लेशेन लक्षणाव्यापारोप. योगोऽप्यस्तीत्युक्तम् । असंलक्ष्यक्रमव्यङ्गये तु लक्षणासमुन्मेषमात्रमपि नास्ति । असं. लक्ष्यत्वादेव क्रमस्येति वक्ष्यामः । तेन द्वितीयेऽपि भेदे चत्वार एव व्यापाराः ॥१३॥

 अत एवोभयोदाहरणपृष्ठ एव भाक्तमाहुरित्यनुभाष्य दूषयति । अयं भावः-- भक्तिश्च ध्वनिश्चेति किं पर्यायवत्ताद्रूप्यम् ? अथ पृथिवीत्वमिव पृथिव्या अन्यतो व्या वर्तकधर्मरूपतया लक्षणम् ? उत काक इव देवदत्तगृहस्य सम्भवमात्रादुपलक्षणम् ? तत्र

बालप्रिया

प्रच्छन्नो यः स्वाभिप्रायोऽधरास्वादलिप्सात्मकः, तस्य ख्यापनार्थं यद्वैदग्ध्येन औचित्या. परित्यागेन चाटुविरचनं उक्तरूपं तदात्मकं तद्द्वारकं विभावस्य रत्यालम्बनभूतस्य तरुणीलक्षणस्य उद्दीपनं स्वाभिप्रायानुगुणतया अभिलाषोत्पादनमित्यर्थः । व्यङ्ग्य- मिति । अस्मिन् श्लोके प्राधान्येन व्यङ्ग्यमित्यर्थः । यदि वा अथवा। आकस्मि- केति । आकस्मिकः सम्भावितः इत्यनुपपत्तौ हेतुः । विशिष्टः शुक कर्तृकतप श्चरणदेशादिरूपश्च यः प्रश्नार्थः तस्यानुपपत्तेरित्यर्थः। सादृश्याल्लक्षणेति । असौ शुकशावक इत्यनेन कामुकः कश्चिद्युवा अधरपाटलं बिम्बफलं दशतीत्यने नाधरास्वाद- नादिकञ्च सादृश्यालक्ष्यत इति भावः । ध्वन्यमानमेव तदिति । तत् प्रच्छन्नेत्या- दिपूर्वोक्तम् । उक्तयोर्विशेषमाह-केवलमित्यादि । पूर्वत्र सुवर्णेत्याद्युदाहरणे । प्रधानमित्यनेनेतरयोर्लेशतस्सहकारित्वमस्तीति दर्शितम् । इहेति । शिखरिणीत्यादा- वित्यर्थः । शक्तीति । प्रधाने इति विपरिणामेनानुषङ्गः । अत्र हेतुमाह-वाक्यार्थति। एतावता लक्षणाया नाकिञ्चित्करत्वमित्याह -लेशेनेत्यादि । इत्युक्तमिति । 'यदिवे' त्यादिग्रन्थेनोक्तमित्यर्थः । नन्वेवंरीत्या विवक्षितान्यपरवाच्ये सर्वत्रापि किं लक्षणास्ति ? नेत्याह-असंलक्ष्येति । असंलक्ष्यत्वादेवेति । क्रमस्यासंलक्षणे मुख्यार्थबाधादि- स्फुरणस्य लक्षणाहेतोरसम्भवादिति भावः । यदिवेति प्रस्तुतं पक्षमुपसंहरति- तेनेति ॥ १३॥

 अत एवेति । यस्मात् द्वितीयेऽपि प्रभेदे शिखरिणीत्यादौ क्वचिच्चत्वारो व्यापाराः तस्मादेवेत्यर्थः । तत्र भक्तिरूपाया लक्षणाया अभावे भक्तेर्ध्वनित्वशङ्कापरिहारयोस्तदान- न्तर्यं तसदश्लिष्टं स्यादिति भावः। 'भक्त्या बिभर्तीयादेः 'सा तु स्यादुपलक्षणमित्यन्त- ग्रन्थस्य भाव प्रदर्शयन्नवतारयति-अयं भाव इत्यादि । इतीति। इत्यनयोरित्यर्थः ।