पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
प्रथमोद्योतः


लोचनम्

त्यपि तपः श्रुतम् । तवेति भिन्नं पदम् । समासेन विगलिततया प्रतीयेत, तव दश- तीत्यभिप्रायेण । तेन यदाहुः–'वृत्तानुरोधात्त्वदधरपाटलमिति न कृतम्' इति, तद- सदेव ; दशतीत्यास्वादयति अविच्छिन्नप्रबन्धतया, न त्वौदरिकवत्परं भुङ्क्ते; अपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेव रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति तारुण्या- दुचितकाललाभोऽपि तपस एवेति । अनुरागिणश्च प्रच्छन्नस्वाभिप्रायख्यापनवैदग्ध्य-

बालप्रिया

कृतम् । कुत इत्यत आह-समास इति । 'समासे विगलिततया प्रतीयेत न प्रतीयतामिति क्वचित् ग्रन्थे पाठः । समासे युष्मत्पदस्याधरपदेन समासे सति । युष्मदर्थं इति शेषः। विगलिततया अधःस्थिततया अप्रधानतयेति यावत्। प्रतीयेत समासार्थघटकाधरोपसर्जनत्वेन प्रतीतिविषयो भवेत् । न प्रतीयतां तथा प्रतीतिर्मा भवतु। क्वचिद्ग्रन्थे 'न प्रतीयतामित्यंशस्य न पाठः । समास इत्यस्य स्थाने समासेनेति पाठश्च दृश्यते । समासेन हेतुनेत्यर्थादस्मिन् पाठेऽप्युक्त एवार्थः । यद्वा समासे न इति पदद्वयं समासे सति । विगलिततया पृथक्तया न प्रतीयेतेत्यर्थः । ननु प्राधान्येन प्रतीतये व्यस्ततयोक्तिरावश्यकीत्यायातम् । सा किमर्थेत्यत्राह-तवेत्यादि । तवे. त्यस्य दशनक्रिययाप्यन्वयाभिप्रायेणेत्यर्थः । भिन्नमित्यनेन सम्बन्धः । अयम्भावः- यथा 'अरुणया पिङ्गाक्ष्ये'त्यादी वैदिकवाक्ये गवाद्यन्वितस्यारुण्यादेस्साध्यतादिसम्ब. न्धेन क्रयणादौ । यथा वा 'धनवान् सुखी'त्यादिलौकिकवाक्ये मतुवाद्यर्यान्वितस्य धनादेः प्रयोज्यत्वादिसम्बन्धेन सुखादौ चान्वयः, तथात्राधरान्वितस्य त्वत्सम्बन्धि. त्वस्य प्रयोज्यत्वसम्बन्धेन बिम्बफलकर्मकदशनेऽप्यन्वयः । यतः शुकशावकोऽयं त्वदधरारुण्यलाभसुभगम्भावुकं बिम्बफलं त्वत्सम्बन्धितया दशति, त्वामेव प्रधानत- योद्दिश्य दशतीत्यर्थो विवक्षितः । अतस्तवेति व्यस्ततया निर्दिष्टमिति । अविच्छि. न्नेत्यादि । आस्वादयतीत्यनेन सम्बन्धः । निरवशेषेणोपभोगे सति हि प्रबन्धविच्छेदो भवेत्तथा नेत्यर्थः । औदरिकवदिति । स हि रसास्वादवार्तानभिज्ञो निरवशेषमेव भोज्यद्रव्यं भुङ्क्ते । अत्रेति । रसास्वादनक्रियायामित्यर्थः । तत्प्राप्तिवत् तथावि- धबिम्बफलप्राप्तिवत् । उचितेति । उचिते काले लाभः बिम्बफलतदास्वादलाभः तपस एव तपोरूपहेतोरेव । इतोत्यस्यापि व्यङ्ग्यमित्यनेनान्वयः । प्रच्छन्नेति ।


 १. अत्राधरपदार्थे त्वत्पदार्थसम्बोध्यमाननायिकासम्बन्धः प्राधान्येन विधेयतया बुबोधयिषितः । तादृशनायिकासम्बन्धितया प्रतीयमानस्याधरस्यास्वादनेनैव शुके धन्यधन्यतायाः सिद्धिः । समासे च सति अधरपदार्थविशेषणतया स्थितस्य युष्म- च्छब्दार्थस्य प्राधान्येन विधेयतया बोधनं न स्यात् । समासोपसर्जनीभूते तादृशसाम- •भावात् इति 'तवेति भिन्न पदमित्यादिग्रन्थेन विधेयाविमशदोषोऽत्र नास्तीति निर्गलितोऽर्थः प्रतिपाद्यत इति ।