पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
सटीकलोचनोपेतध्वन्यालोके


द्वितीयस्यापि-

शिखरािणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥


लोचनम्

सम्भवत्स्वार्थमिति कृत्वाविवक्षितवाच्यम् । तत एव पदार्थमभिधायान्वयं च तात्प- र्यशक्त्यावगमय्यैव बाधकवशेन तमुपह्रत्य सादृश्यात्सुलभसमृद्धिसम्भारभाजनतां लक्षयति । तल्लक्षणाप्रयोजनं शूरकृतविद्यसेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्य- मानं सन्नायिकाकुचकलश युगलमिव महार्घतामुपयद्ध्वन्यत इति । शब्दोऽत्र प्रधान- तया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः ।

 शिखरिणीति । न हि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्वतादय इमां सिद्धिं विदध्युः। दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः । न चैवंविधोतमफल जनकत्वेन पञ्चाग्निप्रभुः

बालप्रिया

शब्दार्थोभयकर्तृके अभिधादित्रयजन्यप्रतिपत्तृगतार्थप्रतीतेः प्रयोक्तृगतविवक्षायाश्च सहकारित्वमस्तीत्यतस्तस्यापि प्रतिपिपादयिषयैतन्नामद्वयं विहितं न प्रभेदमात्रप्रति- पिपादयिषया, तत्राविवक्षितवाच्यस्य ध्वनेर्लक्षणामूलत्वात्तन्नाम्ना प्रतिपत्तुगततत्प्र. तीतेः विवक्षितान्यपरवाच्यनाम्ना विवक्षायाश्च सहकारित्वं दर्शितमिति तन्नामभ्यां ध्वनिस्वरूपमेव प्रोज्जीवितमिति । बाधकवशेन तमुपहत्येति । तं अन्वय- मित्यर्थः । उपहननं बाधनम् । सादृश्यादिति निमित्तोक्तिः । लक्षयतीति । सुवर्ण. पुष्पामित्येतल्लक्षणया बोधयतीत्यर्थः । 'तल्लक्षणाप्रयोजनं प्राशस्त्यं ध्वन्यत' इति स. म्बन्धः । माहार्घतां चारुत्वम् । उपयत् प्राप्नुवत् । अत्रेति। अविवक्षितवाच्यध्व- नावित्यर्थः । चत्वार इति । अभिधाद्याश्चत्वार इत्यर्थः । सुवर्णेत्यादिपद्यव्याख्यास्म. दीयकुवलयानन्दव्याख्याने द्रष्टव्या ।

 शिखरिणीति । अत्र नामेत्यन्तस्य कियच्चिरमित्यस्य किमभिधानमित्यस्य च ध्वनिं क्रमेणाह-न हीत्यादिना । इमामिति । तरुण्याधरपाटलिमलाभसुभगम्भा- वुकबिम्बफलदशनात्मिकामित्यर्थः। अत्रेति । ईदृश्याः सिद्धेः प्राप्तावित्यर्थः । एवं विधेति । यथोक्तबिम्बफलदशनात्मकेत्यर्थः । त्वदधरारुणमम्बुरुहाक्षि यदि'त्या. द्यनिर्दिश्य तवाधरेत्यादिनिर्देशे बीजमाह-तवेत्यादि । तवेतिपदं भिन्नं पृथक्


 १. नायिकेति । मरहट्टनायिकेत्यर्थः । मरहट्टेति महाराष्ट्रस्य संज्ञा । उक्त चानाभियुक्तैः-

नान्ध्रीपयोधर इवातितरां प्रगाढः नो गूर्जरीस्तन इवातितरां निगूढः ।
अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः ॥ इति ।