पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
प्रथमोद्योतः


द्विविधः सामान्येन ।

तत्राद्यस्योदाहरणम्-

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥


लोचनम्

न्यपरवाच्येऽपि । यदि वा कर्मधारयेणार्थपक्षे अविवक्षितश्चासौ वाच्यश्चेति। विव- क्षितान्यपरश्चासौ वाच्यश्चेति । तत्रार्थः कदाचिदनुपपद्यमानत्वादिना निमित्तेनाविव- क्षितो भवति । कदाचिदुपपद्यमान इति कृत्वा विवक्षित एव, व्यङ्गयपर्यन्तां तु प्रतीति स्वसौभाग्यमहिम्ना करोति । अत एवार्थोऽत्र प्राधान्येन व्यञ्जकः, पूर्वत्र शब्दः । ननु च विवक्षा चान्यपरत्वं चेति विरुद्धम् । अन्यपरत्वेनैव विवक्षणात्को विरोधः ? सामान्येनेति । यस्त्वलङ्काररसात्मना हि त्रिभेदोऽपि ध्वनिरुभाभ्यामेवाभ्यो सङ्गृहीत .इति भावः । ननु तन्नामपृष्ठे एतन्नामनिवेशनस्य किं फलम् ? उच्यते--अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धाभिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगता- र्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्त्रभिप्रायरूपायाश्च विवक्षायाः सहकारित्वमुक्तमिति ध्व. निस्वरूपमेव नामभ्यामेव प्रोज्जीवितम् ।

 सुवर्णपुष्पामिति । सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा, एतच्च वाक्यमेेवा

बालप्रिया

शेषः । अविवक्षितपदस्य यथाश्रुतार्थाभिप्रायेणाह-यदि वेत्यादि । वाच्यस्याविवक्षि- तत्वादिकमुपपादयति-तत्रार्थ इत्यादि। आदिपदेनानुपयोगित्वं गृह्यते । उपप- द्यमान इति। अर्थ इत्यनुषज्यते । व्यङ्ग्यपर्यन्तां व्यङ्गयप्रतीतिपर्यन्ताम् । प्रतीतिं स्वगोचरां प्रतीतिम् । शङ्कते-नन्विति । विरुद्धमिति । विवक्षितत्वे अन्यपरत्व- सम्भवादिति भावः । उत्तरमाह-अन्येत्यादि । को विरोध इति । प्रधानतया विव- क्षितत्वस्यैवान्यपरत्वोपमर्दकत्वादिति भावः । पृच्छति-नन्विति । तन्नामपृष्ठे तस्य ध्वनिनान्नः पृष्ठे पश्चात् । एतज्ञामेति । अविवक्षितवाच्यादिनामेत्यर्थः । अस्ति ध्वनिः स चेत्यादिश्च निर्देशः किमर्थ इत्यर्थः । अत्रोत्तरमाह-उच्यत इत्यादि । अयमर्थः- ध्वननव्यापारसम्बन्धो हि पञ्चानां ध्वनिशब्दवाच्यत्वे निबन्धनम् । तत्र च व्यापारे


 १. अयं ग्रन्थः व्यक्तिविवेककृत्पूर्वपक्षसमाधानपर इति भाति ।

 २. अर्थप्रदर्शनमात्रमेतत् ; न त्वेष विग्रहः । तथा सति 'कर्मण्यम्' इत्यणि टिट्ढा ण' इत्यादिना जीवापत्तेः । सुवर्णमेव पुष्पं यस्या इति तु विप्रहः । त्रय इति शूरत्व. ख्यातविद्यत्वसेवाभिज्ञत्वगुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादिचकारत्रयमेकैकस्यान्य- नैरपेक्ष्यं द्योतयति । लक्षणया त्रय एव पुरुषाः सुलभसमृद्धिसम्भारभाजनानि भवन्तीति प्रत्याय्यते । अन्यत्सुगमम् ।

       १८ व०