पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
सटीकलोचनोपेतध्वन्यालोके


तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिदीर्ष्य॑या कलुषितशेमुषीकस्वमाविष्करणीयम् । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः।

 अस्ति ध्वनिः । स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति


लोचनम्

स्येति-अशेषलक्ष्यव्यापिन इत्यर्थः । विशेषग्रहणेनाव्यापकत्वमाह । मात्रशब्देना- ङ्गित्वाभावम् । तत्र ध्वनिस्वरूपे भावितं प्रणिहितं चेतो येषां तेन वा चमत्काररूपेण भावितमधिवासितमत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति । अभा- ववादिन इति । अवान्तरप्रकारत्रयभिन्ना अपीत्यर्थः ।

 तेषां प्रत्युक्तौ फलमाह-अस्तीति । उदाहरणपृष्टे भाक्तत्वं सुशङ्कं सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थं भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्येऽप्य- प्रतिसमाधाय भविष्यदुद्दयोतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोति-स चेति । पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्यर्थाश्रयेण यथोचितं सामानाधिकरण्यं सुयोज्यम् । वाच्येऽर्थे तु ध्वनौ वाच्य शब्देन स्वात्मा तेनाविवक्षितोऽप्रधानीकृतः स्वात्मा येनेत्यविवक्षितवाच्यो व्यञ्जकोऽर्थः। एवं विवक्षिता-

बालप्रिया

जकभावपरमित्याशयेन व्याचष्टे-व्यङ्गयेति । सामान्यरूपो व्यङ्ग्यव्यञ्जकभावः साधा- रणस्समान इति योजना । 'तदप्रसिद्धालङ्कारविशेषमात्रे'त्यत्रत्यविशेषमात्रग्रहणयोः फलमाह-विशेषग्रहणेनेत्यादि । अलङ्कारस्येति शेषः । मात्रशब्दो लेशार्थक इत्या- शयेनाह-अङ्गित्वाभावमिति । आहेत्यनुषज्यते । प्रकारान्तरेणाह--तेन वेति । तेन ध्वनिना कर्त्रा।

 ननु क्रमप्राप्तं भाक्तत्वादिपक्षमप्रतिसमाधाय वृत्तिकृता 'स चे'त्यादिना ध्वनि- भेदप्रदर्शनमनुचितमित्यत आह-उदाहरणपृष्ठ इत्यादि ।अविवक्षितवाच्यादिध्वनेरुदाहरणे प्रदर्शिते तत्र लक्षणायास्समुन्मेषाद्भक्तिरेव ध्वनिरिति शङ्का सुसंपादा, परस्परभेदसंपादकस्य रूपभेदादेः स्पष्टत्वात्तत्परिहारश्च सुकर इत्यभिप्रायेणेत्यर्थः । भविष्यदुद्योतानुवादानुसारेणेति । अत्रानुक्तावविवक्षितवाच्यो य इति द्वितीयो. द्योतादावनुवादोऽनुपपन्नः स्यादतः स्वयमेव कारिकाकारस्थाने स्थित्वेत्यर्थः । ननु प. ञ्चानां ध्वनिशब्दार्थानां मध्ये कमर्थमभिप्रेत्याविवक्षितवाच्यो ध्वनिरित्यादिसामानाधि- करण्यनिर्देश इत्यत आह-पञ्चधापीत्यादि । पञ्चधा वाचकादिस्वरूपे । तत्र वाचकः शब्दो ध्वनिपदार्थ इति पक्षे आविवक्षितः वाच्यो येन शब्देन । यत्र यस्मिन् शब्दे । यतः यस्माच्छब्दात् । यस्मै यदर्थत्वेन । यस्य यत्सम्बन्धित्वेन स तथोक्त इति बहुव्रीहिर्बोध्यः । एवं व्यङ्गयव्यञ्जनकाव्यानामन्यपदार्थत्वेऽपि बोध्यम् । वाच्यो ध्वनिशब्दार्थ इति पक्षे विशेषमाह-वाच्येऽर्थ इति । स्वात्मेति । उच्यत इति