पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
प्रथमोद्योतः


दर्शिभिर्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपवेश्यो व्यञ्जकत्व- साम्याद्ध्वनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदत द्भेदसङ्कल- नया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन


लोचनम्

ध्वनिः। तेन व्यतिरेकाव्यतिरेकव्यपदेशोऽपि न न युक्तः । वाच्यवाचकसंमिश्र इति । वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः । 'गामश्वं पुरुषं पशुम्' इतिवत्समुच्चयोऽत्र चकारेण विनापि । तेन वाच्योऽपि ध्वनिः वाचकोऽपि शब्दो ध्वनिः, द्वयोरपि व्यञ्जकत्वं ध्वनतीति कृत्वा । संमिश्यते विभावानुभावसंवलन- येति व्यङ्ग्योऽपि ध्वनिः, ध्वन्यत इति कृत्वा । शब्दनं शब्दः शब्दव्यापारः, न चासावभिधादिरूपः, अपि त्वात्मभूतः, सोऽपि ध्वननं ध्वनिः । काव्यमिति व्यपदेश्यश्च योऽर्थः सोऽपि ध्वनिः, उक्तप्रकारध्वनिचतुष्टयमयत्वात् । अतएव साधारणहेतुमाहो व्यञ्जकत्वसाम्यादिति । व्यङ्ग्यव्यञ्जकभावः सर्वेषु पक्षेषु सामान्यरूपः साधारण इत्यर्थः । यत्पुनरेतदुक्तं 'वाग्विकल्पानामानन्यात्' इत्यादि, तत्परिहरति-न चैवं विधस्येति । वक्ष्यमाणः प्रभेदो यथा-मुख्य द्वे रूपे । तद्भेदा यथा-अर्थान्तरसंक्रमि- तवाच्यः, अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्य- क्रमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्वेति । तत्राप्यवान्तरभेदाः । महाविषय-

बालनिया

निशब्दवाच्यतासमुदायात्मकत्वेनैव काव्यस्य ध्वनित्वलाभेन हेतुनेत्यर्थः । व्यतिरेके- त्यादि । 'काव्यस्यात्मा ध्वनिरि'त्यादौ मैदव्यपदेशः काव्यविशेषः, स ध्वनिरित्यादा- वभेदव्यपदेशश्चेत्यर्थः । न न युक्त इति । युक्त एवेत्यर्थः। व्यङ्गयादीनां पञ्चानां यद्ध्व- निव्यवहार्यत्वमुक्तं, तदनुगुणतया वाच्येत्यादिग्रन्थं व्याचष्टे-वाच्यवाचकेत्यादि । इति मध्यमेति । तथाच वाच्यश्च वाचकश्च सम्मिश्रश्चेत्यर्थ इति भावः । विना. पीति । तथा च शब्दात्मा काव्यमिति व्यपदेश्यश्चेत्यर्थ इति भावः । उक्तव्याख्या- नस्य फलमाह-तेनेत्यादि । ध्वनतीति कृत्वेति । व्यञ्जयतीति हेतोरित्यर्थः । ध्वनि- रिति कर्तरि प्रत्यय इति भावः । सम्मिश्रपदेन व्यङ्ग्यार्थो विवक्षित इत्याह-सम्मि- श्र्यत इत्यादि । विभावेति । विभावानुभावाभ्यां संवलनया सम्बन्धेनेत्यर्थः । ध्व. न्यत इति कृत्वेति । कर्मणि प्रत्यय इति भावः । 'शब्दात्मेति पदं व्याचष्टे-शब्द- नमित्यादि । ध्वननं ध्वनिरिति । अस्मिन्नर्थे ध्वनिरिति भावे प्रत्यय इति भावः । अत एवेति । यस्माद्भक्तानां पञ्चानामर्थानां ध्वनित्वमत्र ग्रन्थेऽभिषित्सितं, तस्मादेव साधारणस्य हेतोरभिधानादित्यर्थः । हेतोः साधारण्यलाभाय व्यञ्जकत्वपदं व्यङ्गयव्य-


 १. 'शाकपार्थिवादीनां सिझे उत्तरपदलोपस्योपसंख्यानम्' इति वार्तिकात् । अनोत्तरपदं पूर्वपदघटकोत्तरपदपरम् , व्याख्यानात् ।