पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ इति ।

 तेन व्यञ्जकौ शब्दार्थावपोह ध्वनिशब्देनोक्तौ । किञ्च वर्णेषु तावन्मात्रपरिमाणे- ष्वपि सत्सु । यथोक्तम्-

अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्ण वा सकलं स्फुटम् ॥ इति ।

 तेषु तावत्स्वेव श्रूयमाणेषु वक्तुर्योऽन्यो द्रुतविलम्बितादिवृत्तिभेदात्मा प्रसिद्धादुच्चा. रणव्यापारादभ्यधिकः स ध्वनिरुक्तः । यदाह स एव--

शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥ इति ।

 अस्माभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्योऽभिधातात्पर्यलक्षणारूपेभ्योऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः । एवं चतुष्कमपि ध्वनिः । तद्योगाच्च समस्तमपि काव्यं

बालप्रिया

नुगुणैः व्यक्तरूपस्फोटग्रहणानुकूलैः । ध्वनिप्रकाशिते शब्दे विषये उत्पन्नैः अन्त- रालवर्तिभिः प्रत्ययः स्फोटविषयकाव्यतप्रत्ययः । स्वरूपं स्फोटस्वरूपम् । अवधा- र्यते व्यक्तं ज्ञायते। यथोक्तं भाष्ये "व्यक्तरूपग्रहणानुगुणा ह्यनुपाख्येयाकारा बहव उपायभूताः प्रत्यया ध्वनिभिः प्रकाश्यमाने शब्दे उत्पद्यमानाश्शब्दस्वरूपावग्रहे हेतवो भवन्ति इति । तेनेति । व्यञ्जकानां ध्यनिशब्देन तैर्व्यवहृतत्वादित्यर्थः । अथ व्यापा- रस्य व्यञ्जनस्यापि ध्वनिशब्दव्यवहार्यत्वं प्रसाधयितुमाह-किञ्चेति । तावन्मा. त्रपरिमाणेष्विति । यादशोऽयं श्रोत्रेन्द्रियेण गृह्यते तादृशपरिमाणविशिष्टेष्वित्यर्थः । अपिशब्दः समुच्चये, 'श्रूयमाणेष्विस्त्यनेनास्य सम्बन्धः। वर्णेषु स्वरूपतः परिमाणविशेष- वत्तया स्थितेषु तेषु तथाविधेष्वेवाखण्डतया श्रोत्रेन्द्रियविषयतां गतेषु च सत्सु इत्यर्थः । अस्य संवादश्लोकगर्भितस्य 'वक्तुर्योऽन्य' इत्यादिग्रन्थेन सम्बन्धः । अल्पीयसेति । अल्पीयसा यत्नेनाप्युचारितं शब्दम् । मतिः कर्त्रो । नैव गृह्णाति । यदि वा, सकलंं वर्णं स्फुटं गृह्णाति वा; न तु किञ्चित्ग्रहणाग्रहणे सम्भवतो वर्णस्य निरवयवत्वादिति भावः । अनेन 'तावत्स्वेव श्रूयमाणेष्वि'त्युक्तमुपपादितम् । स इति । तथाविधव्या- पार इत्यर्थः । शब्दस्येति । श्लोकोऽयं मञ्जूषायामित्वं व्याख्यातः-शब्दस्य स्फोट- स्य अभिव्यक्तेरूर्ध्वं वैकृता ध्वनयो जायन्ते इति शेषः। ते तु वृत्तिभेदे द्रुतादिवृत्ति- भेदे । समुपोहन्ते तत्र कारणं भवन्ति । स्फोरस्तु तैर्न भिद्यत इत्यर्थः । वैकृतत्वं चैषामालस्यादिकृतत्वादिति । 'वृत्तिभेदमिति पाठे 'समुपोहन्त' इत्यस्य जनयन्ती- त्यर्थः । चतुष्कमिति । व्यङ्ग्यादि चतुष्टयमित्यर्थः । ध्वनिः ध्वनिशब्दव्यवहार्यः । समस्तमपि काव्यं व्यङ्ग्यवाच्यवाचकव्यापारसमुदायात्मकं काव्यमपि । तेनेति । ध्व.