पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
प्रथमोद्योतः


करणाः, व्याकरणमूलत्वात्सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनि- रिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्वार्थ-


लोचनम्

निरवकाशम् । श्रूयमाणेष्विति । श्रोत्रशष्कुली सन्तानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शब्दजाः शब्दाः श्रूयमाणा इत्युक्तम् । तेषां घण्टानुरणनरूपत्वं तावदस्ति ; ते च ध्वनिशब्देनोक्ताः । यथाह भगवान् भर्तृहरिः-

यः संयोगवियोगाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाश्शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ इति ।

 एवं घण्टादिनिर्ह्रादस्थानीयोऽनुरणनात्मोपलक्षितो व्यङ्गयोऽप्यर्थो ध्वनिरिति व्यव. हृतः । तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्ग्राह्यस्फोटाभिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः । यथा भगवान् स एव-

प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणस्तथा ।

बालप्रिया

म्पादनायाह-विद्वद्भय इत्यादि । अथ व्यङ्ग्यार्थशब्दतदर्थव्यञ्जनानां चतुणां ध्व. निशब्दवाच्यत्वं विद्वत्प्रसिद्धिवशात्साधयिष्यन्नादौ व्यङ्ग्यार्थस्य ध्वनिशब्दवाच्यत्वसि. ध्यनुगुणतया व्याचष्टे-श्रोत्रेत्यादि। श्रोत्रशष्कुलीं शष्कुलीसमानश्रोत्रदेशावच्छिन्ना- काशम् । सन्तानेनेति । वीचीसन्तानन्यायेनेत्यर्थः । प्राक्रयायामिति । वैशेषिका- दिप्रक्रियायामित्यर्थः । शब्दजाश्शब्दा इति । अन्त्या इति भावः । तेषामिति । श्रूयमाणानामन्त्यानां शब्दजशब्दानामित्यर्थः । घण्टेति पूर्वशब्दजन्य- त्वेन साम्यादिति भावः । य इति । उत्पत्तिपक्षे स्फोटध्वन्योः भेदप्रकटनपरोऽयं श्लोकः । संयोगवियोगाभ्यां करणानां स्थानैस्सह यस्संयोगो वियोगश्च ताभ्याम् । करणैरिति कर्तरि तृतीया । जिह्वाग्रादिभिरित्यर्थः । स्पष्टमिदं प्रातिशाख्ये । सः स्फोट इति प्रथममुत्पद्यमानः शब्दः स्फोट इत्यर्थः। शब्दजाः शब्दा इति। श्रूय- माणा इति भावः । अन्यैरिति । उत्पत्तिवादिभिरित्यर्थः । यथोक्तं वृत्तिकृता-'अनि- त्यपक्षे स्थानकरणमाप्तिविभागपूर्वकं प्रथममेभिर्निर्वृत्तो यश्शब्दः स स्फोट उच्यत' इत्यादि । घण्टादीति । घण्टादेर्निह्रादः अनुरणनं तत्स्थानीयस्तत्तुल्य इति व्यङ्गयस्य ध्वनिपदेन व्यवहार्यत्वे हेतुः। नन्वेवं व्यङ्गयविशेषस्यैव ध्वनिव्यवहार्यत्वं भवेन्न तु रसादेस्तस्यानुरणनरूपत्वविरहादित्यत माह-अनुरणनेति । एतदुपलक्षणमिति भावः।

 अथ वाचकस्य शब्दस्य वाच्यस्यार्थस्य च ध्वनिव्यवहार्यत्वं प्रसाधयति- तथेत्यादि । नादशब्दवाच्या इति । नादशब्देन वैयाकरणैर्व्यवह्रता इत्यर्थः । अन्त्येति । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृता या अन्त्यवर्णबुद्धिः तया निर्ग्राह्यः नितरां व्यक्तरूपेण ग्राह्यो यः स्फोटः तस्याभिव्यञ्जका इत्यर्थः । त इति । ते वर्णा इत्यर्थः । प्रत्ययैरिति । अनुपाख्येयैः इदमित्वमिति व्याख्यातुमशक्यैः । ग्रहणा- घण्टेति ।