पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
सटीकलोचनोपेतध्वन्यालोके


थग्भावे तु तदङ्गत्वं तस्य । न तु तत्त्वमेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव । 'सूरिभिः कथित' इति विद्वदुपज्ञेय- मुक्तिः, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैया.


लोचनम्

एक एव समुदायः, अन्येषामपि समुदायिनां तत्र भावात ; तत्समुदायिमध्ये च प्रती- यमानमप्यस्ति, न च तदलङ्काररूपं, प्रधानत्वादेव । यत्त्वलङ्काररूपं तदप्रधानत्वान्न ध्वनिः । तदाह-न तु तत्वमेवेति । नन्वलङ्कार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्कयाह-यत्रापि वेति । न हि समासोक्त्यादीनामन्य- तम एवासौ तथास्माभिः कृतः, तद्विविक्तरवेऽपि तस्य भावात् , समासोक्त्याद्यलङ्कार- स्वरूपस्य समस्तस्याभावेऽपि तस्य दर्शितत्वात् 'अता एत्थ' इति 'कस्स वा ण' इत्यादि ; तदाह-न तन्निष्ठत्वमेवेति । विद्वदुपक्षेति । विद्वद्भय उपज्ञा प्रथम उप- क्रमो यस्या उक्तरिति बहुव्रीहिः । तेन 'उपज्ञोपक्रमः इति तत्पुरुषाश्रयं नपुंसकत्वं

बालप्रिया

व्यङ्गयत्वमित्यर्थः । तस्येति । अवयवस्येत्यर्थः । 'तत्वमिति अवयवित्वमित्यर्थः । भावमाह लोचने-तदापीत्यादि । तदापि समुदायमध्यपतनदशायामपि । सः समुदायिरूपावयवः । एक एव न समुदायः न समुदायरूपावयवी । अत्र हेतु- माह-अन्येषामपीति । तत्र भावादिति । समुदाये सत्वादित्यर्थः । नन्वित्यादि। कश्चिदिति। समासोक्त्याद्यन्यतम इत्यर्थः । वृत्तौ 'यत्रापी'त्यादि। 'यत्र' पर्यायोक्तादौ 'भ्रम धार्मिकत्यादौ पर्यायोक्तत्वपक्षे, 'भवति न गुणानुराग' इत्यादिसङ्करालङ्कारे च । 'तत्वमिति । अवयवित्वमित्यर्थः ; प्राधान्यमिति यावत् । 'तन्निष्टत्वमिति । तदवयविनिष्ठत्वमित्यर्थः; तदलङ्कारनिष्ठत्वमिति यावत् । ध्वनेमहाविषयत्वान्न तन्नि- ष्ठत्वमेवेति यदुक्तं तद्विवृणोति लोचने- हीत्यादि । समासोक्तौ ध्वनिरन्तर्भवतीति परमताभ्युपगमेन समासोक्तिति । आदिपदेन पर्यायोक्तादीनां ग्रहणम्। असौ अल- ङ्कारः । तथा ध्वनित्वेनात्मत्वेन च । तद्विविक्तत्वेऽपि समासोक्त्याद्यलङ्कारस्पर्शरा- हित्येऽपि । तस्य ध्वनेः । उक्तस्यैव विवरणम्-समासोक्त्यादीति। इत्यादीति । इत्यादावित्यर्थः । 'दर्शितत्यादि'त्यनेन सम्बन्धः । 'विद्वदुपशेति प्रयोगस्य साधुत्वस.


 १. 'न तन्निष्ठत्वमेवे त्यनन्तरं 'तस्मिन्निष्ठा पर्यवसानं यस्येति तज्ञ भवति, महाविषयत्वात् । व्यापकत्वादित्यर्थः । घटो घट एव न भवति, किन्तु तस्करेऽपि । तत्रापि न भवति, किन्तु घटेऽपीत्यनेन व्यापकोऽयमित्युक्तं भवति, महाविषयत्वात्। इत्यधिकः पाठः क्वचिदुपलभ्यते । सोऽपि प्रकृतानुगुण इत्येव प्रतिभाति ।

 २. 'उपज्ञोपक्रम तदाद्याचिल्यासायाम्' इति (पा. सू., २, ४. २१) समनं सूधम् ।