पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
प्रथमोद्योतः


तत्परावेव शब्दार्थों यत्र व्यङ्ग्यं प्रीत स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ।।

 तस्मान्न ध्वनेरन्यत्रान्तर्भावः । इतश्च नान्तर्भावः । यतः काव्यविशे- षोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि-अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः । अपृ-


लोचनम्

तया प्राधान्यं न चकास्ति, अपि तु बलात्कल्प्यते, तथापि हृदये नानुप्रविशति । यथा- 'देआ पसिअणिआतासु' इत्यवान्यकृतासु व्याख्यासु । तेन चतुर्षु प्रकारेषु न ध्वनिव्य- वहारः सद्भावेऽपि व्यङ्गयस्य अप्राधान्ये म्लिष्टप्रतीतौ वाच्येन समप्राधान्येऽस्फुटे प्रा. धान्ये च । क तर्ह्यसावित्याह-तत्परावेचेति । सङ्करेणालङ्कारानुप्रवेशसम्भावनया उज्झित इत्यर्थः । सङ्कारालङ्कारेणेति त्वसत् , अन्यालङ्कारोपलक्षणत्वे हि क्लिष्टं स्यात् । इतश्चेति । न केवलमन्योन्यविरुद्धवाच्यवाचकभावव्यङ्गयव्यञ्जकभावसमाश्रयत्वान्न तादात्म्यमलङ्काराणां ध्वनेश्च यावत्स्वामिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः । अव- यव इति । एकैक इत्यर्थः । तदाह-पृथग्भूत इति । अथ पृथग्भूतस्तथा मा भूत् , समुदायमध्यनिपतितस्तर्ह्यस्तु तथेत्याशङ्कयाह-अपृथग्भावे त्विति । तदापि न स

बालप्रिया

इत्यस्य व्यख्यानम्-स्फुटतथा न चकास्तीति । बलात्कल्प्यत इति । तच्च युक्तिपर्यालोचनया परीक्षादशायामाहरणम् । नानुप्रविशतीति। युक्त्यनुसन्धाना- भावे विलयादिति भावः । अस्योदाहरणमाह-यथेत्यादि । देेआ इति । 'प्रार्थये तावत्प्रसीदेत्यादिः पूर्वोदाहृता गाथा । 'न ध्वनिरि त्यस्य विवरणम्-न ध्वनि- व्यवहार इति । सद्भावेऽपीति । ध्वनेरिति शेषः । 'चतुर्षु प्रकारेषु' । इत्यु- क्तस्य विवरणम्-न्यङ्गयस्याप्राधान्य इत्यादि । 'सङ्कर' इत्यस्य व्याख्यानम्-अल- ङ्कारानुप्रवेशेत्यादि । समासोक्त्याद्यनुप्रवेशशङ्कया पूर्वोक्तयेत्यर्थः । यथाश्रुतार्थ निषे. धति-सङ्करालङ्कारेणेत्यादि । वृत्तावितश्चेत्यत्र इतः वक्ष्यमाणद्धेतोरित्यर्थ मनसि- कृत्य व्याचष्टे न केवलमित्यादि । न तादात्म्यमिति । ऐक्याभाव इत्यर्थः । अङ्गीत्यादि । अङ्गित्वाङ्गत्वयोरित्यर्थः । नन्ववयवातिरिक्तावयविनोऽनुपलम्भान्न चाव- यव एवावयवीति तन्निषेधोऽनुपपन्न इति शङ्कामवयव इत्येकवचनार्थस्य विवक्षितत्वं दर्शयन् परिहरति एकैक इति । 'पृथग्भूत' इति चोक्तार्थकमेवेत्याह-तदाहेति । अथ पृथग्भूत इति । अवयव इति शेषः । तथा अवयवी । समुदायमध्यपतितः समुदायोपहितस्वरूपः । तथास्तु अवयवी भवतु । वृत्तौ तदङ्गत्वमिति । अवय-


१. व्यङ्गयस्येति सद्भावेत्यनेनापि मध्यमणिन्यायेन सम्बध्यते ।