पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
सटीकलोचनोपेतध्वन्यालोके


व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ॥
व्यङ्ग्यस्य प्रतिमामाने वाच्यार्थानुगमेऽपि वा ।
न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥


लोचनम्

ग्व्यापारादिविकारोऽप्रतिवन्धो नियतः प्रभवस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यत्वादिलक्षणोऽर्थो भावालङ्कारः । यथा-

एकाकिनी यदवला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् ।
कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धवधिरा ननु मूढ पान्थ ॥
अत्र व्यङ्गयमेकैकत्र पदार्थे उपस्कारकारीति वाच्यं प्रधानम् । व्यायप्राधान्ये तु

न काचिदलङ्कारतेति निरूपितमित्यलं बहुना ।

 यत्रेति काव्ये। अलङ्कृतय इति। अलङ्कृतित्वादेव च वाच्योपस्कारकत्वम् । प्रतिभामात्र इति । यत्रोपमादौ म्लिष्टार्थप्रतीतिः । वाच्यार्थानुगम इति । वाच्ये- नार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः । न प्रतीयत इति । स्फुट-

बालप्रिया

ख्यानम्-नियत इति। येन हेतुनेति। वाक्यप्रतिपाद्येनेति शेषः। 'येन प्रतिबद्धेन' इति पाठे तु प्रतिबद्ध नेत्यस्योक्त एवार्थः । स हेतुरिति । कस्यचिच्चित्तवृत्तिविशेषस्य अनुभावो व्यापारादिर्व्यंङ्गय हेतुद्वारा तच्चित्तवृत्तिविशेषस्य गमकः स हेतुरित्यर्थः । वक्ष्यमाणोदाहरणाभिप्रायेण तद्धेतुं दर्शयति-यथेष्टेत्यादि । अहं त्वया यथेष्टमुपभो- क्तव्या न किञ्चित्प्रतिबन्धकमिति नायिकामनोगतादिरर्थ इत्यर्थः । एकाकिनीति । तथेति समुच्चये । तदिति । यदहमेवंविधास्मि गृहपतिर्गतश्च तदित्यर्थः । नन्व- स्ति खलु तव श्वश्रूस्तां याच इत्यत्राह-इयमित्यादि । अत्र व्यङ्गयमिति । एकाकि- न्यादिपदव्यङ्गयमात्मनो भोग्यकामुकान्तरराहित्यादिकमित्यर्थः । वाक्येन चात्मनो निमन्त्रणयथेच्छोपभोग्यत्वं द्योत्यते। नन्वेतद्वयङ्गयमत्र प्रधानमेवेत्यतः साधारण्येनाह- व्यङ्गयप्राधान्य इत्यादि । तत्प्रतिबन्धं च गमयतीत्यायुदाहरणं रुद्रटग्रन्थादवगन्त. व्यम् । व्यङ्गयस्येत्यादयस्त्रयः परिकर श्लोकाः ।

 'यत्राप्राधान्यमित्यत्र यत्रेति पदं व्याचष्टे-काव्य इति । अप्राधान्ये हेतुर्वा- च्यमात्रानुयायित्वं, तत्र हेतुर्वाच्यार्थोपस्कारकत्वं, तच्चालङ्कृतिपदेन दर्शितमित्याह- अलङ्कृतित्वादेवेति । 'व्यङ्गयस्य प्रतिभामात्र' इत्येतत्सोदाहरणं विवृणोति- यत्रेत्यादि । म्लिष्टा अस्पष्टा । अर्थप्रतीतिः व्यङ्ग्यप्रतीतिः । 'वाच्यमात्रानु- यायिन' इत्यनेन पौनरुक्त्यं परिहर्तुं व्याचष्टे-वाच्येनेत्यादि । 'न प्रतीयतः