पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
प्रथमोद्योतः


त्वलङ्कारान्तरमेव । तदयमत्र सङ्क्षपः-


लोचनम्

नुवेशः सम्भावितः । तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते-तदयमत्रेति । कि- यद्वा प्रतिपदं लिख्यतामिति भावः । तत्र व्याजस्तुतिर्यथा-

किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ-
स्तूणीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या-
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥

 अत्र व्यङ्ग्यं स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते । यत्तूदाहृतं केनचित्-

आसीन्नाथ पितामही तव मही जाता ततोऽनन्तरं
माता सम्प्रति साम्बुराशिरशना जाया कुलोद्भूतये ।
पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा
युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥

 इति, तदस्माकं ग्राम्यं प्रतिभात्यत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः कृता ? त्वं वंशक्रमेण राजेति हि कियदिदम् ? इत्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।

यस्य विकारः प्रभवन्नप्रतिबन्धस्तु हेतुना येन ।
गमयति तमभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ॥ इति ।

 अत्रापि वाच्यप्राधान्ये भावालङ्कारता। यस्य चित्तवृत्तिविशेषस्य सम्बन्धी वा-

बालप्रिया

पुनरिति । 'अलकारान्तराङ्गत्वमि'त्यत्रान्यथाप्रतिपत्तिः स्यादित्यतो विवृणोति-अल- ङ्कारविशेषत्वमिति । इति भाव इति । अप्रस्तुतवर्णनस्थले यत्र वाच्यस्य अप्र- स्तुतार्थस्य चमत्कारकारित्वं व्यङ्गय, प्रस्तुतं तु तदङ्गं तन्वाप्रस्तुतप्रशंसालङ्कारः । यत्र तु प्रस्तुतस्य व्यङ्गयस्य प्राधान्यं तत्र वस्तुध्वनिरेव नालङ्कार इति ग्रन्थकाराशय इत्यर्थः । स्तुत्यात्मकमिति । भवतः कीर्तिविश्वं व्याप्नोति इत्युत्तमश्लोकत्वरूपगुण- कीर्तनमित्यर्थः । आसीदिति । स्नुषा पुत्रभार्या । अत्यन्तालभ्येति । पितामह्या मातृत्वोक्तावेवाङ्कुरिता तावदसभ्यस्मृतिस्तस्या जायात्वस्नुषात्ववर्णनेन सुतरामभिव्य. क्तेत्याशयेनोक्तमत्यन्तासभ्येति । वाच्येऽर्थे दोषमुक्त्वा व्यङ्गयेऽपि तमाह-का चेति । कियदिदमिति । राजान्तरादुत्कर्षविशेषाप्रतीतेरिति भावः । 'व्याजस्तुतिप्रभृतिरिति पूर्वोक्तप्रभृतिपदार्थ भावालङ्कारं रुद्रटोक्तमाह-यस्येति । 'यस्य विकारस्तु अप्रतिबन्धः प्रभवन् येन हेतुना तमभिप्रायं तत्प्रतिबन्धं च गमयति असौ भाव इत्यन्वयः। अत्रापि द्वैविध्यमस्तीत्याशयेनाह-अधापीत्यादि । लक्षणवाक्यं व्याचष्टे-यस्येत्यादि । चित्तवृत्तिविशेषस्य अनुरागादेः सम्बन्धी जन्यः । अप्रतिबन्ध इत्यस्य व्या-

     १७ ध्व०