पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
सटीकलोचनोपेतध्वन्यालोके


प्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः सम्बन्धस्तदाप्यप्रस्तुतस्य स- रूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः । इतरथा


व्यङ्गयतया प्राधान्येन प्रकाश्यते । जडोऽयमिति ह्युद्यानेन्दूदयादिर्भावो लोकेनावज्ञा- यते, स च प्रत्युत कस्यचिद्विरहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपर- वशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणाभिर्नर्तयति । न च तस्य हृदयं केनापि ज्ञायते कीदृगयमिति, प्रत्युत महागम्भीरोऽतिविदग्धः सुष्टुगर्वहीनोऽतिशयेन क्रीडाचतुरः स यदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसम्भावननिमित्ता. त्सम्भावितः, आत्मा च यत एव कारणात्प्रत्युत जाड्येन सम्भाव्यस्तत एव सहृदयः सम्भावितस्तदस्य लोकस्य जडोऽसीति याच्यते तदा जड्यमेवंविधस्य भावव्रातस्या- विदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरिति । जडादपि पापीयानयं लोक इति ध्व- न्यते । तदाह-यदा त्विति । इतरथा विति । इतरथैव पुनरलंकारान्तरत्वम- लङ्कारविशेषत्वं न व्यङ्गयस्य कथंचिदपि प्राधान्य इति भावः । उद्देशे यदादिग्रहणं. कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरलङ्कारवर्गोऽपि सम्भाव्यमानव्यङ्गया-

बालप्रिया

वाच्यार्थ दर्शयति-जडोऽयमित्यादि स्तुतिरित्यन्तेन । 'इति ह्यवज्ञायत' इति सम्बन्धः। लोकेन कर्त्रा । स च उद्यानादिर्भावश्च । प्रत्युतेति । अजड एव न, किन्तु विदग्धस्वभावोऽपीत्यर्थः। अन्यस्येति । प्रियतमामिलितस्येत्यर्थः । हठादाक्रम्येत्यस्य व्याख्यानम्-यथेच्छं विकारकारणाभिरिति । विकाराणामौत्सु. क्यहर्षादीनां कारणाभिः प्रवर्तनाभिः । आत्महृदयं प्रच्छायेत्यस्य व्याख्यानम्- न चेत्यादि। प्रत्युतेत्यस्यैव विवरणम्-महागम्भीर इत्यादि । स इत्यस्य अत्रापि सम्बन्धः । उत्तरार्धं व्याचष्टे-स यदीत्यादि । सः उक्तगुणविशिष्टो भावव्रातः । जड इतीत्यस्य सम्भावित इत्यनेनान्वयः । तत इत्यस्य व्याख्यानम्-तत एव कारणादिति । उक्तप्रकारकसंक्रीडनरूपादित्यर्थः। कारणादित्यस्य विशेषणम्- प्रत्युत वैदग्ध्येत्यादि । सहृदयेत्यादेर्व्याख्यानम्-आत्मा चेत्यादि । तादति । तर्हि इत्यर्थः । 'अस्य लोकस्य सा स्तुतिरिति सम्बन्धः । का स्तुतिरित्यवाह-जडो. ऽसीति । हे जन एवं वदस्त्वं जडोऽसीति केनचिदुच्यते चेत्तद्वचनं स्तुतिरेवेत्यर्थः । कुत एतदित्यत आह-तदेत्यादि । तदा तद्वचनकाले । जाड्यमेवंविधस्येत्यादि । अयमर्थः-अजडस्य सतो जडत्वप्रसिध्युपजीविनी हि जनसम्बन्धिजडत्वोक्तिः । तथा सति तत्तुल्ययोगक्षेमतया जनस्याप्यजडत्वसम्भवाज्जनं प्रति जडोऽसीत्युक्तिर्वास्तवी स्तुतिरेव पर्यवस्येदिति । एवमप्रस्तुतं वाच्यार्थं व्याख्याय पार्यन्तिकमर्थं प्रदर्शयति- जडादपीति। तदाहेति । यदेतत्सारूप्येण प्रतीयमानस्य प्राधान्ये ध्वनित्वमुक्तं तदाहेत्यर्थः । एवकारो भिन्नक्रम इति दर्शयति-इतरथैवेति । तुशब्दार्थकथनं