पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
प्रथमोद्योतः


लोचनम्

 अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तु- तस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् । न ह्यचेतनोपालम्भवदसम्भाव्यमानोऽय- मर्थो न च न हृद्य इति वाच्यस्यात्र प्रधानता । यदि पुनरचेतनादिनात्यन्तासम्भाव्य- मानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्व- निरसौ । यथा ममैव-

भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन्
भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
स त्वामाह जडं ततः सहृदयम्मन्यत्वदुःशिक्षितो
मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् ॥

 कश्चिन्महापुरुषो वीतरागोऽपि सरागवदिति न्यायेन गाढविवेकालोकतिरस्कृतति. मिरप्रतानोऽपि लोकमध्ये स्वात्मानं प्रच्छादयलँलोकं च वाचालयन्नात्मन्यप्रतिभासमे- वाङ्गीकुर्वस्तेनैव लोकेन मूर्खोऽयमिति यदवज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं

बालप्रिया

'त्वमुत्पादित' इति 'सपर्या पुर' इति च पाठः । सारूप्यवशेनेति । प्राणसमर्पणाद्यु- पकर्तरि अपकर्तृत्वरूपसादृश्यबलेनेत्यर्थः । प्रस्तुतस्यैवेति । वाच्यस्येति शेषः । अत्र हेतुमाह-न हीत्यादि । न च न हृद्य इति । हृद्य एवेत्यर्थः । यदीत्यादि । 'अचेतनादिना आक्षिप्यमाणमिति योजना । अचेतनादिनेत्यस्य विशेषणानि-अत्यन्ते. त्यादीनि । अत्यन्तमसम्भाव्यमानानि तदर्थस्य अप्रस्तुतार्थस्य विशेषणानि यत्र तेन । वस्तुध्वनिरसाविति । नायमप्रस्तुतप्रशंसालङ्कार इति भावः ।

 भावेति । भावानां चन्द्रोद्यानादिपदार्थानां व्रातः सार्थः हे भाव व्रात ! त्वं तथा संक्रीडसे यदिति सम्बन्धः । ततः एवं संक्रीडनाद्धेतोः । सहृदयम्मन्यत्वेन सहृद- योऽहमित्यभिमानेन दुःशिक्षितः दुर्ललितः। सः जनः । त्वां जडमाह । परन्तु अमुष्य एवंवदतो जनस्य । या जडात्मता जडोऽसीत्युच्यमानता सा त्वत्सा. म्यसम्भावनात् त्वत्साम्यापाताद्धेतोः । 'अमुष्य स्तुतिपदं मन्ये' इति सम्बन्धः । अत्रादौ प्रस्तुतं व्यङ्ग्यमर्थं दर्शयति-कश्चिदित्यादि प्रकाश्यत इत्यन्तेन । 'न्या. येने त्यस्य 'प्रच्छादयन्नित्यादिना सम्बन्धः । यथोक्तम्-

"ज्ञाततत्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।
ज्ञाततत्वोऽपि लोकस्य जडोन्मत्तपिशाचवदिति ॥

 गाढेति । गाढो यो विवेक एवालोकः तेन तिरस्कृतं तिमिरप्रतानं मोहान्ध- कारसमूहो यस्य सः। वाचालयन्निति । आत्मावमानगर्भिता बहीर्वाचः प्रवर्त- यन्नित्यर्थः । आत्मनि स्वस्मिन् । अप्रतिभासं जनैरारोपितमवबोधम् । अथ