स्यापि प्राधान्यम् । निमित्तनिमित्तिभावे चायमेव न्यायः । यदा तु सारू-
लोचनम्
दर्शयति-निमित्तेति । कदाचिन्निमित्तमप्रस्तुतं सदभिधीयमानं नैमित्तिकं प्रस्तुत. माक्षिपति । यथा-
ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । |
अत्राप्रस्तुतं सुहृद्वान्धवरूपत्वं निमित्तं सज्जनासक्त्या वर्णयति नैमित्तिकी श्रद्धे- यवचनतां प्रस्तुतामात्मनोऽभिव्यक्तुम् ; तत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणकत्वेनेति व्यङ्ग्यव्यञ्जकयोः प्राधान्यम् । कदाचित्तु नैमित्तिकम- प्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति । यथा सेतौ-
सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरम् । |
अत्र जाम्बवान् कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनैमित्तिकं वर्ण- यति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयम- भिव्यङ्क्तुम् । तत्र निमित्तप्रतीतावपि नैमित्तिकं वाच्यभूतम् ; प्रत्युत तन्निमित्तानु- प्राणितत्वेनोद्धुरकन्धरीकरोत्यात्मानमिति समप्रधानतैव वाच्यव्यङ्गययोः । एवं द्वौ प्रकारौ प्रत्येकं द्विविधौ विचार्य तृतीयः प्रकारः परीक्ष्यते सारूप्यलक्षणः । तत्रापि द्वौ प्रकारौ-अप्रस्तुतात्कदाचिद्वाच्याचमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षम् । यथास्म- दुपाध्यायभट्टेन्दुराजस्य-
प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः |
बालप्रिया
अत्रास्थान इति । जडानामिति शेषः । ये इति । अपरः उक्तविपरीतवृत्तिः । निमित्तं श्रद्धेयवचनतानिमित्तम् । सज्जनासक्त्यति । सज्जनबहुमत्येत्यर्थः । नैमित्तकेति । श्रद्धेयवचनतेत्यर्थः । निमित्तप्रतीतिरेवेति । न हि वक्तुस्तथावि- धबान्धवत्वादिप्रतीति विना श्रद्धेयवचनत्वं प्रतीतिपथमवतरेदिति भावः । सग्गमिति।
स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः । |
करोतीत्यर्थः । तन्मुखप्रक्षमिति । तथा च अप्रधानमिति भावः । प्राणा इति ।